Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 595
________________ [ गाथाः मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं ३०२ णाव्यवच्छेदः । ततोऽनन्तरसमयेऽयोगिकेवली भवति । अयोगिकेवली च भवस्थोऽजघन्योत्कर्षमन्तमुहूर्तं कालं भवति । स च तस्यामवस्थायां वर्तमानो भवोपग्राहि कर्मक्षपणाय व्युपरतक्रियमप्रतिपाति ध्यानमारोहति । एवमसावयोगिकेवली स्थितिघातादिरहितो यान्युदयवन्ति कर्माणि तानि स्थितिक्षणानुभवन् क्षपयति, यानि पुनरुदयवन्ति तदानीं न सन्ति तानि वेद्यमानासु प्रकृतिपुस्तिकसङ्क्रमेण सङ्क्रमयन् वेद्यमानप्रकृतिरूपतया च वेदयमानस्तावद् याति यावदयोग्यवस्थाद्विचरम समयः ' ।। ६४ ।। देवगइ सहगयाओ, दुचरमसमय भवियम्मि खीयंति | सविवागेपरनामा, नोयागोयं पि तत्थेव ।। ६५ ।। देवगत्या सह गताः स्थिताः देवगति सहगताः, देवगत्या सह एकान्तेन बन्धो यासां ता देवगतिहगता इत्यर्थः । कास्ताः ? इति चेद् उच्यते - वै क्रिया-ऽऽहारकशरीर वैकिया-ऽऽहारकबन्धने वैक्रिया ssहारकसङ्घाते वैक्रिया ऽऽहारकाङ्गोपाङ्ग देवानुपूर्वी च । एता देवगति सहगताः 'द्विचरमसमयभवसिद्धिके' इति द्वौ चरमौ समयौ यस्य भवसिद्धिकस्य सद्विचरमसमयः, स चासौ भवसिद्धिकश्च तस्मिन् द्विचरमसमयभवसिद्धिके 'क्षीयन्ते' क्षयमुपगच्छन्ति । तथा 'तत्रैव' द्विचरमसमयभवसिद्धिके 'सविपाकेतरनामानि' विपाकः - उदयः, सह विपाकेन यानि वर्तन्ते तानि सविपाकानि तेपामिनराणि- प्रतिपक्षभूतानि यानि नामानि तानि सविपाकेतरनामानि अनुदयवत्यो नामप्रकृतय इत्यर्थः । ताचमाः - औदारिक- तेजस - कार्मणशरीराणि औदारिकतैजस- कार्मणबन्धन- सङ्घातानि संस्थानपट्कं संहननपट्कमौदारिकाङ्गोपाङ्ग वर्ण-रस- गन्ध-स्पर्शा मनुजानुपूर्वी पराघातमुपघातमगुरुलघु प्रशस्ता ऽप्रशस्तविहायोगती प्रत्येकमपर्याप्तकमुच्छ्वासनाम स्थिरा ऽस्थिरे शुभा - शुभे सुस्वर- दुःस्वरे दुर्भगमनादेयम् यशः कीर्तिर्निर्माणमिति । तथा नीचैर्गोत्रम् अपिशब्दादन्यतरदनुदितं वेदनीयम् । सर्वसङ्घया सप्तत्वारिंशत्प्रकृतयः क्षयमुपयान्ति ।। ६५ ।। , अन्नरवेयणीयं मनुया उय उच्चगोय नव नामे | वेद अजोगिजिणो, उक्कोस जहन्न एक्कारं ॥ ६६ ॥ 'अन्यतरद् वेदनीयं' सातमसातं वा द्विचरमसमयक्षीणाद् इतग्द् मनुष्यायुरुच्चै गोत्रं 'नव नामानि ' नव नामप्रकृतीः, सर्वसङ्ख्यया द्वादश प्रकृतीवेदयते ' अयोगिजिनः' अयोगिकेवली | जघन्येनैकादश, ता ता एव द्वादश तीर्थकरवर्जा द्रष्टव्याः ।। ६६ ।। १० स० १ ० ० ०यः ॥ ६४॥ तस्मिंश्च एताः प्रकृतयः क्षीयन्ते तदाह २ अस्मत्याश्ववर्तिषु समग्र दर्शेषु तु - "दुचरमसमय भवियम्मि" इति मूल आहत एव पाठः समति, परं विवृतिकृद्भिः श्रीमद्भिर्मलयगिरिभि: "दुचरम समयभवसिद्धियम्मि" इत्येतत्पदानुसारेण व्याख्यातमस्ति ।। ३ म० व्यणिज्जं ॥। ४ स० १ ० व्याऊ उ० ॥ ५ ० ०हन्नविकारे ॥

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602