Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
३००
मलयगिरिमहर्षि विनिर्मितविवृत्यपेतं
[गाथा अमुमेयार्थ सङ्कलय्य सूत्रकृत् प्रतिपादयति
पुरिसं कोहे कोहं, माणे माणं च छुहइ मायाए ।
मायं च छुहइ लोहे, लोहं सुहुमं पि तो हणइ ॥ ६४ ।। व्याख्या-'पुरुष' पुरुषवेदं बन्धादौ व्यवच्छिन्ने सति गुणसङ्क्रमेण 'क्रोधे' संज्वलनक्रोधे "'छह" त्ति सङ्क्रमयति । क्रोधस्यापि च बन्धादौ व्यवछिन्ने तं क्रोधं 'माने' संज्वलनमाने सङ्क्रमयति । संज्वलनमानस्यापि बन्धादौ व्यवच्छिन्ने तं संज्वलनमानं गुणसङ्क्रमेण 'मायायां' संज्वलनमायायां प्रक्षिपति । संज्वलनमायाया अपि बन्धादौ व्यवच्छिन्ने तां संज्वलनमायां 'लोभे' संज्वलनलोभे गुणसङ्क्रमेण सङ्क्रमयति । संज्वलनलोभस्यापि च बन्धादो व्यवच्छिन्नेतं संज्वलनलोभं सूक्ष्ममपि, अपिशब्दात् शेषमपि 'हन्ति' स्थितिघातादिभिर्विनाशयति । लोभे च माकल्येन विनाशिते सति अनन्तरसमये क्षीणकपायो जायते । तस्य च क्षीणकषायस्य मोहनीयवर्जानां शेषकर्मणां स्थितिघातादयः पूर्ववत प्रवर्तन्ते तावद् यावत् क्षीणकषायाद्धायाः सङ्कचे या भागा गता भवन्ति, एकः 'सङ्खये यो भागोऽवतिष्ठते । तस्मिंश्च ज्ञानावरणपञ्चक-दर्शनावरणचतुष्टयाऽन्तरायपञ्चक-निद्राद्विकरूपाणां पोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनया अपवर्त्य क्षीणकषायाद्धासमं करोति, केवलं निद्राद्विकस्य स्वरूपापेक्षया समयन्यूनम् , कर्मत्वमात्रापेक्षया तु तुल्यम् । सा च क्षीणकषायाद्धा अद्याप्यन्तमुहूर्तप्रमाणा, ततः प्रभृति च तेषां स्थितिघातादयः स्थिताः, शेषाणां तु भवन्त्येव । तानि च षोडश कर्माणि निद्राद्विकहीनानि उदय-उदीरणाभ्यां वेदयमानस्तावद् गतो यावत् समयाधिकावलिकामानं शेषः । ततोऽनन्तरसमये उदीरणा निवृत्ता। तत आवलिकामानं कालं यावद् उदयेनेव केवलेन वेदयते यावत् क्षीणकपायाद्धाया द्विचरमसमयः । तस्मिश्च द्विचरमसमये निद्राद्विक स्वरूपसत्तापेक्षया क्षीणम् , चतुर्दशानां च शेषप्रकृतीनां चरमसमये क्षयः । तथा चाह सूत्रकृत
खीणकसायदुचरिमे, निद्दा पयला य हणइ छउमत्थो ।
आवरणमंत गए, छउमत्थो चरिमसमम्मि ॥ व्याख्यातार्था । ततोऽनन्तरसमये सयोगिकेवली भवति । स च लोकमलोकं च सर्व सर्वात्मना परिपूर्ण पश्यति । न हि तदस्ति भृतं भवद् भविष्यद्वा यद् भगवान् न पश्यति । उक्तं च
"संभिन्नं पासंतो, लोगमलोगं च सव्यओ सव्वं ।।
तं नत्थि जं न पासइ, भूयं सव्वं भविस्यं च ॥ (आव०नि० गा० १२७) । स० १ स०२ म० त० छुमइ ।। २ २ १ स २ त० म० संख्येयमा० ॥ ३ सं १ त० म० संख्येयभा०॥ ४ स० स० १ ०राये छ० ।। ५ संभिन्नं पश्यन् लोकमलोकं च सर्वतः सर्वम् । तद् नास्ति यद् न पश्यति भतं भव्यं भविप्यच्च ।।

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602