Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 594
________________ ३०१ ६४] चन्द्रषिमहत्तरकृतं सप्ततिकाप्रकरणम् । इत्थम्भूतश्च सयोगिकेवली जघन्यतोऽन्तमुहूर्तमुत्कर्षतो देशोनां पूर्वकोटी विहृत्य कश्चित् कर्मणां समीकरणार्थ समुद्घातं करोति, यस्य वेदनीयादिकमायुपः सकाशादधिकतरं भवति । अन्यस्तु न करोत्येव । तथा चोक्तं प्रज्ञापनायाम्-- 'सव्वे विणं भंते ! केवली समुग्घायं गच्छंति ? गोयमा ! नो इण? समदु । जस्साउएण तुल्लाई, बंधणेहिं ठिईहि य । भवोवग्गहकम्माइं, न समुग्घायं स गच्छइ ।। अगंतूणं समुग्घायमणंता केवली जिणा। जरमरणविप्पमुक्का, सिद्धिं वरगई गया ।। (पत्र ६०१-१) अत्र "बंधणेहि" ति बध्यन्ते इति बन्धनाः-कर्मपरमाणवः, कृत् "बहुलम्" (सिद्धहे० ५-१-३ ) इति वचनात् कर्मण्यनट् प्रत्ययः तैः, शेषं सुगमम् । __गत्वा चागत्वा च समुद्घातं भवोपग्राहिकर्मक्षपणाय लेश्यातीतमत्यन्ताप्रकम्पं परमनिर्जराकारणं ध्यानं प्रतिपित्सुर्योगनिरोधायोपक्रमत एव । तत्र पूर्व बादरकाययोगेन बादरमनोयोगं निरुणद्धि, रततो वादरवाग्योगम्, ततः सूक्ष्मकाययोगेन बादरकाययोगम्, ततस्तेनैव सूक्ष्मकाययोगेन सूक्ष्ममनोयोगम् , ततः सूक्ष्मवाग्योगम् , ततः सूक्ष्मकाययोगं निरन्धानः सूक्ष्मक्रियाऽप्रतिपाति ध्यानमारोहति । तत्सामर्थ्याच्च बदनोदरादिविवरपूरणेन सङ्कुचितदेहत्रिभागवर्तिप्रदेशो भवति । तस्मिंश्च ध्याने वर्तमानः स्थितिघातादिभिरायुर्वर्जानि सर्वाण्यपि भवोपग्राहिकमोणि तावदपवर्तयति यावत् सयोग्यवस्थाचरमसमयः । तस्मिश्च चरमसमये सर्वाण्यपि कर्माणि अयोग्यवस्थासमस्थितिकानि जातानि । नवरं येषां कर्मणामयोग्यवस्थायामुदयाभावस्तेषां स्थिति स्वरूपं प्रतीत्य समयोनां विधत्ते, कर्मत्वमात्ररूपतां त्वाश्रित्यायोग्यवस्थासमा नाम् । तस्मिंश्च सयोग्यवस्थाचरमसमयेऽन्यतरद्वेदनीयमौदारिक-तैजस-कार्मणशरीरसंस्थानपटक-प्रथमसंहनन-औदारिकाङ्गोपाङ्ग-वर्णादिचतुष्टया-ऽगुरुलघु-उपघात-पराघात उच्छ्वासशुभा-ऽशुभत्रिहायोगति-प्रत्येक-स्थिरा-ऽस्थिर शुभा-ऽशुभ सुम्वर-दुःस्तर निर्माणनाम्नामुदयोदीर १ सर्वेऽपि भदन्त ! कलिनः समुद्घातं गच्छन्ति ? गौतम ! नायमर्थः समर्थः । यस्याऽऽयुषा तुल्यानि बन्धनः स्थिति भिश्च । भवोपग्राहिकर्माणि न समुद्रात स गच्छति ॥ अगत्वा समुद्घातमनन्ताः केवलिनो जिनाः । जरामरणविप्रमुक्ताः सिद्धि वरगतिं गताः ।। सं० सं० मद्रि० ततो वाग्यो० ॥ ३ सं०१ त. छा०म०ऽस्मिश्चरम०॥ ४ सं० १ त० म० fण सयो ।। ५ स. १ त० म००चाश्रि० ।। ६ सं० छानामेव स्थितिं करोति । तस्मिक मुद्रिनामेव । नास्मि ।। ७स०१ सं०२ त०म००रसम्बद्धबन्धनसंघात-संस्था॥ सं०१त. म. त-शुभा॥९ स-१ सरत० म.भ-निर्माता

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602