Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
चन्द्रपिमहत्तर कृत सप्ततिकाप्रकरणम।
२६६
दलिकं द्वितीयस्थिति गतं प्रथमस्थितीकृतं वेद्यमानं वेद्यमानं समयाधिकापलिकाशेपं जातम् । ततोऽनन्तरसमये मायाया द्वितीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद् यावत् समयाधिकावलिकामानं शेषः । ततोऽनन्तरसमये तृतीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद् यावत् समयाधिकावलिकामानं शेषः । तस्मिन्नेव च समये मायाया बन्ध-उदय-उदीरणानां युगपद् व्यवच्छेदः, सत्कर्माऽपि च तस्याः समयोनावलिकाद्विक बद्धमात्रमेव, शेषस्य गुणसङ्क्रमेण लोभे प्रक्षिप्तत्वात् । ततोऽनन्तरसमये लोभस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद् यावदन्तमुहर्तम् । संज्वलनमायायाश्च बन्धादी व्यवच्छिन्ने तस्याः सम्बन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसङ्क्रमेण लोभे सर्व सङ्क्रमयति । लोभस्य च प्रथमकिट्टिदलिक प्रथमस्थितीकृतं वेद्यमानं वेद्यमानं समयाधिकाबलिकामानं शेषं जातम् । ततोऽनन्तरसमये लाभस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च । तां च वेदयमानस्तृतीयकिट्टिदलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावद् यावदू द्वितीयकिट्टिदलिकस्य प्रथमस्थितिकृतस्य समयाधिकावलिकामानं शेषः । तस्मिन्नेव च समये संज्वलनलोभस्य बन्धव्यवच्छेदो, बादरकपायोदयोदीरणाव्यवच्छेदोऽनिवृत्तिवादरसम्परायगुणस्थानककालव्यवच्छेदश्च युगपद् जायते । ततोऽनन्तरसमये सूक्ष्मकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च । तदानीमसौ सूक्ष्मसम्पराय उच्यते । पूर्वोक्ताश्चावलिकास्तृतीयतृतीयकिट्टिगताः शेपीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तियुकसक्रमेण सङ्क्रमयति, प्रथम-द्वितीयकिट्टिगताश्च यथास्वं द्वितीय-तृतीयकिट्टयन्तर्गता वेद्यन्ते । सूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीवेंदयमानः सूक्ष्मकिट्टिदलिक समयोनावलिकाद्विकवद्धं च प्रतिसमयं स्थितिघातादिभिस्तावत् क्षपयति यावत् सूक्ष्मसम्परायाद्धायाः सङ्खथे या भागा गता भवन्ति, एकोऽवशिष्यते । ततस्तस्मिन् "गङ्ख्य यभागे संज्वलनलोभं सर्वापर्वतनयाऽपवयं सूक्ष्मसम्परायाद्धासमं करोति । सा च सूक्ष्मसम्परायाद्धा अद्याप्यन्तमुहूर्तप्रमाणा । ततः प्रभृति च स्थितिघातादयो निवृत्ताः, शेषकर्मणां तु प्रवर्तन्त एव । तां च लोभस्यापवर्तितां स्थितिमुदय-उदीरणाभ्यां वेदयमानस्तावद् गतो यावत् समयाधिकावलिकामानं शेषः । ततोऽनन्तरसमये उदीरणा स्थिता । तत उदयेनैव केवलेन' तां वेदयते यावत् चरमसमयः । तस्मिश्च चरमसमये ज्ञानावरणपञ्चक दर्शनावरणचतुष्कयशःकीर्ति-उच्चेगोत्रा ऽन्तरायपञ्चकरूपाणां पोडशकर्मणां बन्धव्यवच्छेदः मोहनीयस्योदयसत्ताव्यवच्छेदश्च ॥ ६३ ।।
५ सं० १ त० म० गतमाकृष्य प्रथ० ॥ २ ० १ त० म००बद्धमेव, शेषम्य लाभे प्रक्षिप्तत्वात । ततो लोमः॥
२०१त० म००ख्येयमा०॥४ सं सं० २ स्येये भा०॥ ५ स०१तम००न ताबद् वेद ॥ ६ सं० १ त० म. हनीयोदयस० ।

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602