Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
२९२
मलयगिरिमहर्षिविनिर्मितविवत्युपेतं
[ गाथा स्थापनम् , यथा- 'यासामनन्तानन्तानामप्यसत्कल्पनयाऽनुभागभागानां शतमेकोत्तरं द्वयु त्तरं वाऽऽसीत् १०१-१०२ तासामेवानुभागभागानां पञ्चकं पञ्चदशकं पञ्चविंशतिरिति । किट्टिकरणाद्धा याश्चरमसमये युगपद् अप्रत्याख्यान-प्रत्याख्यानावरणलोभावुपशान्ती भवतः । तत्समयमेव च संज्वलनलोभवन्धव्यवच्छेदो बादरसंज्वलनलोभोदय-उदीरणाव्यवच्छेदोऽनिवृत्तिवादरसम्परायगुणस्थानकव्यवच्छेदश्च । तदेवमनिवृत्तिवादरे सप्तभ्य आरभ्य पञ्चविंशतिं यावद् उप"शान्तानि कर्माणि लभ्यन्ते । तथा चाह
सत्तऽट्ट नव य पनरस, सोलस अट्ठारसेव इगुवीसा ।
एगाहि दु चउवीसा, पणवीसा बायरे जाण ॥ सुगमा || अप्रत्याख्यान-प्रत्याख्यानावरणलोभोपशान्तौ च सप्तविंशतिकर्माण्युपशान्तानि भवन्ति । तानि च सूक्ष्मसम्पराये प्राप्यन्ते । आह च
.: सत्तावीसं मुहमे, अट्ठावीसं पि मोहपयडीओ।
- उवसंतबीयरागे, उवसंता होंति नायव्वा ।। . ___ 'सूक्ष्मे' सूक्ष्मसम्पराये सप्तविंशतिकर्माण्युपशान्तानि लभ्यन्ते । सूक्ष्मसम्परायाद्धा चान्तमुहूर्तप्रमाणा । सूक्ष्मसम्परायाद्धायां च प्रविष्टः सन उपरितनस्थितेः सकाशात् कतिपयाः किट्टीः समाकृष्य प्रथमस्थिति सूक्ष्मसम्परायाद्धातुल्यां करोति वेद यति च । शेषं च सूक्ष्मकिट्टीकृतं दलिकं समयोनाबलिकाद्विकबद्धं चोपशमयति । सूक्ष्मसम्परायाछायाश्चरमसमये संज्वलनलोभ उपशान्तो भवति । तत्समयमेव च ज्ञानावरणपश्चक-दर्शनावरणचतुष्का-ऽन्तरायपञ्चक यश:कीर्ति-उच्चैर्गोत्राणां बन्धव्यवच्छेदः । ततोऽनन्तरसमये उपशान्तकपायो भवति । तस्मिंश्योपशान्तकपाये वीतरागेऽष्टाविंशतिरपि मोहनीयप्रकृतय उपशान्ता ज्ञातव्याः ।
उपसान्तकमायश्च जघन्येनैकं समयं भवति, उत्कण त्वन्तमुहर्त कालं यावत , तत ऊर्व नियमादसौ. प्रतिषतति । प्रतिपतिश्च द्विधा-भवक्षयेण अद्धाक्षयेण च । तत्र भवक्षयो म्रियमाणस्य, अद्धाक्षय उपशान्ताद्रायां समाप्तायाम् । अद्धाक्षयेण च प्रतिपतन यथेवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्ध-उदय-उदीरणा व्यवच्छिन्नास्तत्र तत्र प्रतिपतता सता ते आरभ्यन्त इति यावत् । प्रतिपतंश्च तावत् प्रतिपतति यावत् प्रमत्तसंयतगुणस्थानकम् । कश्चित् पुनस्त
१० सं० १ त० म० यामामे वासत्क० ।। २ ट्रा० मुद्रि व्याश्च चा० ।। ३ स० १ त० म० शान्त कर्मा० ।। ४ सप्राष्ट नव च पञ्चदश षोडश अष्टादशैव एकविंशतिः । एकाधिकद्वौ चतुर्विशतिः पञ्चविंशतिर्बाद रे जानीहि ॥ ५स१त. म००मा ।। अत्राप्रत्या०॥६स०१ त० भ० ०नि भवन्ति ।। ७ सं० छा० मुद्रि० ०यते च ।।

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602