Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
६२-६३ ]
चन्द्रमित्रकृतं सप्ततिकाप्रकरणम् ।
२९३
तोऽप्यथस्तनं गुणस्थानकद्विकं याति कोऽपि सासादनभावमपि । यः पुनर्भवक्षयेण प्रतिपतति स प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयतीत्येष विशेषः ।
उत्कर्षतश्चैकस्मिन् भवेद्वौ वारावुपशमश्रेणि प्रतिपद्यते । यथ द्वौ वारावुपशमश्रेणि प्रतिपद्यते तस्य नियमात् तस्मिन् भवे क्षपक श्रेण्यभावः । यः पुनरेकं वारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपि । उक्तं च चूर्णौ
'जो दुवे वारे उवसमसेटिं पडिवज्जइ तस्स नियमा तम्मि भवे खवगसेढी नत्थि, जो एक उवसमसेर्ड पडिवज्जइ तस्स खवगसेढी होज्ज वा । आगमाभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणिं प्रतिपद्यते । तदुक्तम् — मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः ।
1
यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न ॥ तदेवमुक्ता सप्रपञ्चमुपशमश्रेणिः । सम्प्रति क्षपकश्रेणिमभिधातुकाम आह पढमकसायचउक्कं एत्तो मिच्छत्तमोससम्मत्तं ।
अविरय देसे विरए, पमत्ति अपमत्ति खीयंति ॥ ६३ ॥
इति ॥ ६२ ॥
1
इह यः क्षपकश्रेणिमारभते सोऽवश्यं मनुष्यो वर्षाष्टकस्योपरि वर्तमानः । स च प्रथमतः 'प्रथमकपायचतुष्कम् ' अनन्तानुबन्धिसंज्ञं विसंयोजयति । तद्विसंयोजना च प्रागेवोक्ता । ततः इतः प्रथमकषायचतुष्कक्षयादनन्तरं मिध्यात्व-मिश्र सम्यक्त्वानि क्षपयति । सूत्रे चैकवचनं समाहारविवक्षणात् समाहारविवक्षा चामीषां त्रयाणामपि युगपत् क्षपणाय यतते इति ज्ञाप*नार्था । मिथ्यात्वादीनि च क्षपयन् यथाप्रवृत्तादीनि त्रीणि करणान्यारभते । करणानि च प्रागिव वक्तव्यानि । नवरमपूर्वकरणस्य प्रथमसमयेऽनुदितयोमिथ्यात्व सम्यग्मिथ्यात्वयोर्दलिकं गुणसङ्क्रमेण सम्यक्त्वे प्रक्षिपति । उद्वलनासङ्क्रममपि तयोरेवमारभते, तद्यथा-प्रथम स्थितिखण्डं बृहतरमुद्वलयति, ततो द्वितीयं विशेषहीनम्, ततोऽपि तृतीयं विशेषहीनम्, एवं तावद् वाच्यं यावदपूर्वकरणचरम समयः । अपूर्वकरणप्रथमसमये च यत् स्थितिसत्कर्म आसीत् तत् तस्यैव चरमममये सङ्ख्यं यगुणहीनं जातम् । ततोऽनिवृत्तिकरणे प्रविशति, तत्रापि स्थितिघातादीन् सर्वानपि तथैव करोति । अनिवृत्तिकरणप्रथमसमये च दर्शनत्रिकस्यापि देशोपशमना-निधत्ति
१ यो द्वौ वारौ उपशमश्रेणिं प्रतिपद्यते तस्य नियमात् तस्मिन् भवे क्षपकश्रेणिर्नास्ति, य एकवारं उपशमश्रेणि प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेद् वा ।। २ सं० छा० मुद्रिति श्रेणिप्रस्तावात् क्षप० ॥ ३ स ० १ ० म० इत्ते । ४ स० स ं० २ छा० ०मते अपमत्ते खी० । स १ त म ० ०मत्त अपमत्त खी ॥ ५ सं० १ ० म० छा० ० नार्थः ॥ ६ त० मं० व्थम स्थि० ॥ ७ सं० १ तः छा० म० ०तिकर्म ॥ सं १ ० ०दीनि स० ॥

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602