Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
२१५
६३ ]
चन्द्रषिमहत्तरकृतं सप्ततिकाप्रकरणम् । उक्तं च
'पट्टधगो उ मणूसो, निट्ठवगो चउसु वि गईसु ॥
इह यदि बद्धायुः क्षपकश्रेणिमारभते अनन्तानुवन्धिनां च झयादनन्तरं मरणसम्भवतो व्युपरमते, ततः कदाचिद् मिथ्यात्वोदयाद् भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्वीजस्य मिथ्यात्वस्याविनाशात् । क्षीणमिथ्यादर्शनस्तु नोपचिनोति, बीजाभावात् । क्षीणसप्तकस्त्वप्रतिपतितपरिणामोऽवश्यं त्रिदशेषत्पद्यते । प्रतिपतितपरिणामस्तु नानापरिणामसम्भवाद् यथापरिणाममन्यतमस्यां गतावुत्पद्यते । उक्तं च
श्बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरिज्जा । तो मिच्छत्तोदयओ, चिणिज्ज भूयो न खीणम्मि ।। तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे ।
उवरयपरिणामो पुण, पच्छा नाणा मइगईओ॥ ( विशेषा० गा० १३१६-१७) बद्धायुष्कोऽपि यदि तदानीं कालं न करोति तथापि सप्तके शीणे नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमारभते, यत आह--
४ बद्धाऊ पडिवन्नो, नियमा खीणम्मि सत्तए ठाइ । ( विशेषा० गा० १३२५)
"अथोच्येत-क्षीणसप्तको गत्यन्तरं सङ्क्रामन् कतितमे भवे मोक्षमुपयाति ? उच्यतेतृतीये चतुर्थे वा भवे । तथाहि-यदि देवगति नरकगतिं वा सङ्क्रामति ततो देवभवान्तरितो नरकमवान्तरितो वा तृतीयभवे मोक्षमुपयाति । अथ तिर्यक्षु मनुष्येषु वा मध्ये समुत्पद्यते तर्हि सोऽवश्यमसङ्खये यवर्षायुष्केषु मध्ये गच्छति न सङ्घय यवर्षायुष्केषु, ततस्तद्भवानन्तरं देवभवे, तस्माच्च देवभवात् च्युत्वा मनुष्यभवे, ततो मोक्षं यातीति चतुर्थभवे मोक्षगमनम् । उक्तं च पञ्चसङ्ग्रहे--
तइय चउत्थे तम्मि च, भवम्मि सिति दंसणे खीणे । जं देवनिरयऽसंखाउचरिमदेहेसु ते होति ॥ ( गा० ७७६ )
एतानि च सप्त कर्माणि क्षप यति अविरतसम्यग्दृष्टिः देशविरतः प्रमत्तोऽप्रमत्तो वा, तत एतेषु चतुष्यपि सप्तकक्षयः प्राप्यते । तथा चाह सूत्रकृत्-"अविरय" इत्यादि । अविग्ते
१ प्रस्थापकन्तु मनुष्या निष्ठापकश्चत स्पृष्वपि गतिपु ।। २ बद्धायुः प्रतिपन्नः प्रथमकषायक्षये यदि म्रियेत। ततो मिथ्यात्वोदयतः चिनुयाद् भूयो न क्षीणे ॥ तस्मिन् मृतो याति दिवं तत्परिणामश्च सप्तके क्षीणे । उपरतपरिणामः पुनः पश्चाद नानामतिगतिकः।।।। ३ ० १ त०म० ०णागइमईभो। ४ बद्धायुः प्रतिपन्नो नियमात् क्षीणे सप्तके तिष्ठति ।। ५ छा० मुद्रि० थोच्यते-क्षी० ॥ ६ तृतीये चतुर्थे तस्मिन् वा भवे सिध्यन्ति दर्शने क्षीणे। यद् देव-निरयावयायुःचरम देहेषु ते भवन्ति ।। ७ छा० मुद्रिक व्यन्ति अ० ॥ ८ सं० सं० १सं० २ त० म० रई" इ० ।।

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602