Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथा निकाचना व्यवच्छिद्यन्ते । दर्शनमोहनीयत्रिकस्य च स्थितिसत्कर्म अनिवृत्तिकरणप्रथमसमयादारभ्य स्थितिघातादिभिर्घात्यमानं घात्यमान स्थितिखण्डसहस्रषु गतेष्वसंज्ञिपञ्चेन्द्रियस्थितिसत्कर्मसमानं भवति, ततः स्थितिखण्डसहस्रपृथक्त्वे गते सति चतुरिन्द्रियस्थितिसत्कर्मसमानम् , ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु त्रीन्द्रियस्थितिसत्कर्मसमानम् , ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु द्वीन्द्रियस्थितिसत्कर्मसमानम् , ततोऽपि तावन्मात्रेषु खण्डेषु गतेष्वेकेन्द्रियसत्कर्मस्थितिसमानम् , ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु पल्यो'पमासङ्खये यभागप्रमाणं भवति । ततस्त्रयाणामपि प्रत्येकमेकैकं सङ्खये यभागं मुक्त्वा शेषं सर्वमपि घातयति । ततस्तस्यापि प्राग्मुक्तस्य सङ्खये यभागस्यैकं सङ्खये यतमं भागं मुक्त्वा शेषं सर्व विनाशयति । एवं स्थितिघाताः सहस्रशो व्रजन्ति । तदनन्तरं च मिथ्यात्वस्यासङ्घय यान भागान खण्डयति, सम्यक्त्व-सम्यग्मिथ्यात्वयोस्तु सङ्ख्य यान् । तत एवं स्थितिखण्डेषु प्रभूतेषु गतेषु सत्सु मिथ्यात्वस्य दलिकमावलिकामानं जातम् , सम्यक्त्व-सम्यग्मिथ्यात्वयोस्तु पल्योपमासङ्खये यभागमात्रम् । अमूनि च स्थितिखण्डानि खण्डयमानानि मिथ्यात्वसत्कानि सम्यक्त्व-सम्यग्मिथ्यात्वयोः प्रक्षिपति, सम्यग्मिथ्यात्वसत्कानि सम्यक्त्वे, सम्यक्त्वसत्कानि त्वधस्तात् स्वस्थाने इति । तदपि च मिथ्यात्वदलिकमावलिकामानं स्तिबुकमक्रमेण सम्यक्त्वे प्रक्षिपति । तदनन्तरं सम्यक्त्वसम्यग्मिथ्यात्वयोरसङ्खयं यान् भागान् खण्डयति, एकोऽवशिष्यते; ततस्तस्याप्यसङ्खथे यान् भागान् खण्डयति, एकं मुश्चतिः एवं कतिपयेषु स्थितिखण्डेषु गतेषु सम्यग्मिथ्यात्वमप्यावलिकामात्रं जातम् । नदानी सम्यक्त्वस्य स्थितिसत्कर्म वर्षाष्टकप्रमाणं भवति । तस्मिन्नेव च काले सकलप्रत्यूहापगमतो निश्चयमतेन दर्शनमोहनीयक्षपक उच्यते । नत ऊर्ध्व सम्यक्त्यम्य स्थितिखण्ड अन्तमुहूर्तप्रमाण मुत्किरति, तदलिकं तूल्यममयादारभ्य प्रक्षिपति । केवलमुदयसमये सर्वम्तोकम् , ततो द्वितीयममयेऽसङ्ख्यं यगुणम् , ततोऽपि तृतीयसमयेऽमङ्खथे गुणम्, एवं तावद् वक्तव्यं यावद् गुणश्रेणीशिरः । तत ऊर्ध्व तु विशेषहीनं विशेषहीनम् यावचरमा स्थितिः । एवमान्तमुहृर्तिकान्यनेकानि खण्डान्युत्किरति निक्षिपनि च । तानि च तावद् यावद् द्विचरम स्थितिखण्डम् । द्विचरमात्तु स्थितिखण्डाद् चरमखण्डं सङ्ख्य यगुणम् । चरमे च स्थितिखण्डे उत्कीर्ण सति असो क्षपकः कृतकरण इत्युच्यते । अस्यां च कृतकग्णादायां वर्तमानः कश्चित् कालमपि कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते । लेश्यायामपि च पूर्व शुक्ललेश्यायामासीत् , सम्प्रति त्वन्यतमस्यां गच्छति । तदेवं प्रस्थापको मनुष्यो निष्ठापकश्चतमृष्वपि गतिषु भवति ।
१ सं० सं० २ छा० ०पमसंख्ये० ॥ २ सं० १ त०म० क्त्वस्थिति ॥३०१ त० म० न्तर्मोहूतिका ॥ ४ सं० १० म० रमस्थिति ॥ ५ सं०१ त. म० ०पको भूत्वा म०॥

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602