Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् ।
२९१ मुक्त्वा शेषमन्यत् सर्वमुपशान्तम् , ततस्तां प्रथमस्थितिगतामेकामावलिकां स्तिबुकसङ्क्रमेण संज्वलनलोभे सङ्क्रमयति, समयोनावलिकाद्विकबद्धं च दलिर्क पुरुषवेदोक्तप्रकारेणोपशमयति सक्रमयति च । ततः समयोनावलिकाद्विकेन कालेन संज्वलनमाया उपशान्ता, तस्यां चोपशान्तायां पञ्चविंशतिकर्माण्युपशान्तानि भवन्ति । यदा च संज्वलनमाया बन्ध-उदय-उदीरणाव्यवच्छेदस्ततोऽनन्तरसमयादारभ्य संज्वलनलोभस्य द्वितीयस्थितेः सकाशाद् दलिकमाकृष्य लोभवेदकाद्वात्रिभागद्वयप्रमाणां प्रथमस्थिति पूर्वोक्तप्रकारेण करोति वेदयते च । प्रथमश्च' त्रिभागोऽश्वकर्णकरणाद्वासंज्ञः, द्वितीयः किट्टिकरणादासंज्ञः । प्रथमे चाश्वकर्णकरणाद्धासंज्ञे त्रिभागे वर्तमानः पूर्वस्पधेकेभ्यो दलिकमादायापूर्वस्पर्धकानि करोति ।
अथ किमिदं स्पर्धकम् ? इति उच्यते--इह तावदनन्तानन्तैः परमाणुभिर्निष्पन्नान् स्कन्धान जीवः कर्मतया गृह्णाति । तत्र चैकैकस्मिन् स्कन्धे यः सर्वजघन्यरसः परमाणुस्तस्यापि रसः केवलिप्रज्ञया च्छिद्यमानः सर्वजीवेभ्योऽनन्तगुणान् रसाविभागान् प्रयच्छति, अपरस्तु तान प्येकाधि'कान् , अन्यस्तु द्वयधिकान , एवमेकोत्तरया वृद्धया तावद् नेयं यावदन्यः परमाणुः सिद्धानन्तभागाधिकान् रसाविभागान् प्रयच्छति । तत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदायः समान जातीयत्वादेका वर्गणेत्युच्यते । अन्येषां त्वेकाधिकरसाविभागयुक्तानां समुदायो द्वितीया वर्गणा, अपरेषां तु द्वयधिकरसाविभागयुक्तानां समुदायस्तृतीया वर्गणा, एवमनया दिशा एकैकरसाविभागवृद्धानामणूनां समुदायरूपा वर्गणाः सिद्धानामनन्तभागकल्पा अभव्येभ्योऽनन्तगुणा वाच्याः । एतासां च समुदायः स्पर्धकमित्युच्यते, स्पर्धन्त इवोत्तरो त्तरवृद्धया परमाणुवर्गणा अत्रेति कृत्वा ।
इत ऊर्ध्वमेकोत्तरया निरन्तरवृद्धया प्रवर्द्धमानो रसो न लभ्यते किन्तु सर्वजीवानन्तगुणे रेव रसाविभागः, ततस्तेनैव क्रमेण ततः प्रभृति द्वितीयं स्पर्धकमभिधानीयम् , एवमेव च तृतीयम् , एवं तावद् वाच्यं यावदनन्तानि स्पर्धकानि भवन्ति । एतानि च पूर्व कृतत्वात् पूर्वस्पर्धकान्यभिधीयन्ते । तत एतेभ्य इदानी प्रतिसमयं दलिकं गृहीत्वा तस्य चात्यन्तहीनरसता. मापाद्य अपूर्वाणि स्पर्धकानि करोति । आसंसारं हि परिभ्रमता न कदाचनापि बन्धमाश्रित्येदृशानि स्पर्धकानि कृतानि, किन्तु सम्प्रत्येव विशुद्धिप्रकर्षवशात् करोति, ततोऽपूर्वाणीत्युच्यन्ते ।। ___अश्वकर्णकरणाद्धायां च गतायां किट्टिकरणाद्वायां प्रविशति । तत्र च पूर्वस्पर्धकेभ्योऽ. पूर्वस्पर्धकेभ्यश्च दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति । किट्टयो नाम पूर्वस्पर्धकाऽपूर्वस्पर्धकेभ्यो वर्गणा गृहीत्वा तासामनन्तगुणहीनरसतामापाद्य बृहदन्तरालतया यद् व्यव
१ सं० १ त० म० ०श्च विभा० ॥ २ छा० प्येकादिभागाधिकान । एवमे० ॥ ३ ० १ २० २ त०म००कान एकमे०॥ ४ सं०१त० म०त्तररसवृ०॥

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602