Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
२१० मलमगिरिमहार्षिविनिर्मितविवृत्युपेतं
[ गाथा प्रथमस्थितिगतामेकामावलिका संज्वलनमाने स्तिबुकसङ्क्रमेण प्रक्षिपति, समयोनावलिकाद्विकवद्धं च दलिकं पुरुषवेदोक्तप्रकारेणोपशमयति सक्रमयति च । ततः समयोनावलिकाद्विकेन कालेन' संज्वलनक्रोध उपशमितः, तस्मिश्चोपशान्ते एकोनविंशतिकर्माण्युपशान्तानि भवन्ति । यदा च संज्वलनक्रोधस्य बन्ध-उदय-उदीरणाव्यवच्छेदस्ततोऽनन्तरसमयादारभ्य संज्वलनमानस्य द्वितीयस्थितेः सकाशाद् दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । तत्रोदयसमये स्तोकं प्रक्षिपति, द्वितीयस्थितौ असङ्खये यगुणम्, ततोऽपि तृतीयस्थितावसङ्ख्य यगुणम् ,एवं तावद् वाच्यं यावत् प्रथमस्थितेश्चरमसमयः। प्रथमस्थितिकरणप्रथमसमयादेव चारभ्य त्रीनप्यप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनरूपान् मानान् युगपद् उपशमयितुमारभते । संज्वलनमानस्य च प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यान-प्रत्याख्यानावरणमानदलिकं न संज्वलनमाने प्रक्षिपति किन्तु संज्वलनमायादौ । आवलिकाद्विकशेषायां त्वागालो व्यवच्छिद्यते, तत उदीरणैव केवला प्रवर्तते । साऽपि तावद् यावदावलिका शेषा भवति । आवलिकायां तु शेषीभूतायां संज्वलनमानस्य बन्ध-उदय-उदीरणाव्यवच्छेदः अप्रत्याख्यान प्रत्याख्यानावरणौ च मानावुपशान्तौ, तयोश्चोपशान्तयोरेकविंशतिकर्माण्युपशान्तानि भवन्ति । तस्मिश्च समये संज्वलनमानस्य प्रथमस्थितिगतामेकामावलिकां समयोनावलिकाद्विकबद्धं चोपरितनस्थितिगतं दलिकं मुक्त्वा शेषमन्यत् सर्वमुपशान्तम् , ततस्तां प्रथमस्थितिगतामेकामावलिका स्तिबुकसङ्क्रमेण संज्वलनमायायां प्रक्षिपति, समयोनावलिकाद्विकबद्धं च दलिकं पुरुषवेदोक्तप्रकारेणोपशमयति सङ्क्रमयति च । ततः समयोनावलिकादिकेन कालेन संज्वलनमान उपशमितः, तस्मिश्चोपशान्ते द्वाविंशतिकर्माण्युपशान्तानि भवन्ति । यदा च संज्वलनमानस्य बन्ध-उदय-उदीरणाव्यवच्छेदस्ततोऽनन्तरसमयादारभ्य संज्वलनमायाया द्वितीयस्थितेः सकाशाद् दलिकमाकृष्य पूर्वोक्तप्रकारेण प्रथमां स्थिति (रोति वेदयते च, तत्समयादेव चारभ्य तिस्रोऽपि माया युगपद् उपशमयितुमारभते । संज्वलनमायायाश्च प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यान-प्रत्याख्यानावरणमायादलिकं न संज्वलनमायायां प्रक्षिपति, किन्तु संज्वलनलोभे । आवलिकाद्विकशेषायां त्वागालो न भवति, किन्तूदीरणेव केवला । साऽपि तावत् प्रयतते यावदावलि काशेषो भवति । आवलिकायां च शेषीभूतायां संज्वलनमायाया बन्ध-उदय-उदीरणाव्यवच्छेदः अप्रत्याख्यान-प्रत्याख्यानावरणे च माये पशान्ते, तयोश्चोपशान्तयोश्चतुर्विंशतिकर्माण्युपशान्तानि भवन्ति । तस्मिश्च समये संज्वलनमायायाः प्रथमस्थितिगतामेकामावलिकां समयोनावलिकाद्विकाद्धं चोपरितनस्थितिगतं दलिक
.१२० सं० १ सं० २ त० छा० म० न को० ॥ २ सं० छा० मुद्रि० व्यति ।। ३ सं०१ च । प्रथमस्थितिकरण ॥ ४ त० म० ततस्तृ०॥ ५ सं० २ त० म० ०काशेषो भव० । ८सं० १०काशेषो न भव०॥ ६ छा० मुद्रि० काशवा न मव० ।।

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602