Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
मलयगिरिमहर्षियिनिमितविकृत्युपेतं
[ गाथा त्रयाणां च वेदानामिदम् - स्त्रीवेद-नपुसकवेदयोरुदयकालः सर्वस्तोकः, स्वस्थाने तु परस्परं तुल्यः, ततः पुरुषवेदस्य सङ्खये यगुणः, ततोऽपि संज्वलनक्रोधस्य विशेषाधिकः, ततोऽपि संज्वलनमानस्य विशेषाधिकः, ततोऽपि संज्वलनमायाया विशेषाधिकः, ततोऽपि संज्वलनलोमस्य विशेषाधिकः। उक्तं च
'थी अपुमोदयकाला, संखेज्जगुणो उ पुरिमर्वयम्स ।
'तत्तो वि विसेसअहिओ, कोहे तत्तो वि जहकमसो ॥ (पञ्चमं० ७६३) तत्र मंज्वलनक्रोधेन उपशमश्रेणि प्रतिपन्नस्य यावद् अप्रत्याख्यान-प्रत्याख्यानावरणक्रोधोपशमो न भवति तावत् संज्वलनक्रोधस्योदयः । संज्वलनमानेन उपशमणिं प्रतिपन्नस्य यावद् अप्रत्याख्यान-प्रत्याख्यानावरणमानोपशमो न भवति तावत् संज्वलनमानस्योदयः । संज्वलनमायया चोपशमश्रेणि प्रतिपन्नस्य यावद् अप्रत्याख्यान-प्रत्याख्यानावरणमायोपशमोन भवति तावत् संज्वलनमायाया उदयः। संज्वलनलोभेन उपशमणि प्रतिपन्नस्य यावद् अप्रत्याख्यान-प्रत्याख्यानावरणलोभोपशमो न भवति तावत् संज्वलनलोभम्योदयः । तदेवमन्तरकरण मुपरितनभागापेक्षया सममधाभागापेक्षया चोक्तनीत्या विषममिति यावता च कालेन स्थितिखण्डं घातयति यद्वाऽन्यं स्थितिबन्धं करोति तावता कालेन अन्तरकरणमपि करोति । त्रीण्यपि युगपदारभते युगपदेव च निष्ठां नयति । तच्चान्तरं प्रथमस्थितेः सङ्खये यगुणम् । अन्तकरणसत्कदलिकप्रक्षेपविधिश्वायम्येषां कर्मणां तदानीं बन्ध उदयश्च विद्यते तेषामन्तरकरणसत्कं दलिकं प्रथमस्थितो द्वितीयस्थिती च प्रक्षिपति, यथा पुरुषवेदोदयारूढः पुरुषवेदस्य । येषां तु कर्मणामुदय एव केवलो न बन्धस्तेपामन्तरकरणसत्कं दलिकं प्रथमस्थितावेव प्रक्षिपति न द्वितीयस्थिती. यथा स्त्रीवेदोदयारूढः स्त्री'दस्य । येषां पुनरुदयो न विद्यते किन्तु केवलो बन्धस्तेपामन्तरकरणमत्कं दलिकं 'द्वितीयस्थितावेव क्षिपति न प्रथमस्थितो, यथा संज्वलनक्रोधोदयारूढः शेषसंज्वलनानाम् । येषां पुनर्न बन्धो नाप्युदयस्तेषामन्तरकरणसत्कं दलिकं परप्रकृतिषु प्रक्षिपति यथा द्वितीयतृतीयकषायाणाम् । इहानिवृत्तिकरणे बहु वक्तव्यं तत् ग्रन्थगौरवभयाद् नोच्यते, केवलं विशेषार्थिना कर्मप्रकृतिटीका निरीक्षितव्या । अन्तरकरणं च कृत्वा ततो नपुसकवेदमुपशमयति । तं चैवम्--
१ स्त्रीनपुसकवेदकालात् संख्येय गुणस्तु पुरुष वेश्स्य । तस्मादपि विशेषाधिकः क्रोधस्तस्मादपि यथाक्रमशः ॥ २ सं० सं० २ छ,० मद्रि० तम्स वि विसे० ॥३० १ त० म० ०वकाले० ॥ ४ त. कं परप्रकृतिषु ।। ५ छा० मद्रि० ०कृतिसंग्रहणीटी० ॥

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602