Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
२८०
६२]
चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम । सम्यग्दृष्टिः संयमे वर्तमानः सन् अन्तमुहूर्तमात्रेण कालेन दर्शनत्रितयमुपशमयति, उपशमयतश्च करणत्रिकविधिः पूर्ववत् तावद् वक्तव्यो यावदनिवृत्तिकरणाद्धायाः सङ्ख्य येषु भागेषु गतेषु सत्सु अन्तरकरणं करोति, अन्तरकरणं च कुर्वन् सम्यक्त्वस्य प्रथमस्थितिमन्तमुहूर्त प्रमाणां स्थापयति, मिथ्यात्व मिश्रयोश्चावलिका मात्राम् , उत्कीर्यमाणं च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमथितो प्रक्षिपति, मिथ्यात्व मिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वस्य प्रथम स्थितिदलिकमध्ये स्तिबुकसङ्क्रमेण सङ्क्रमयति, सम्यक्त्वस्य पुनः प्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायां सत्यामौपशमिकसम्यग्दृष्टिर्भवति । उपरितनदलिकस्य चोपशमना त्रयाणामपि मिथ्यात्वादीनामनन्नानुवन्धि नामुपरितनदलिकस्येवावसे या । एवमुपशान्तदर्शनमोहनीयत्रिकश्चारित्रमोहनीयमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति, करणानां च स्वरूपं प्राग्वदवगन्तव्यम् , केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके द्रष्टव्यम् , अपूर्वकरणमपूर्वकरणगुणस्थानके, अनिवृत्तिक रणमनिवृत्तिवादरसम्परायगुणस्थानके । तत्र चापूर्वकरणे स्थितिघातादयः पूर्ववदेव प्रवर्तन्ते, नवरमिह सर्वामामशुभप्रकृतीनामबध्यमानानां गुणसङ्क्रमः प्रवर्तते इति वक्तव्यम् । अपूर्वकरणादायाश्च सङ्ख्यं यतमे भागे गते सति निद्रा-प्रचलयोबन्धव्यवच्छेदः । ततः प्रभृतेषु स्थितिखण्डसहस्रं षु गतेषु सत्सु अपूर्वकरणाद्धायाः “सङ्खये या भागा गता भवन्ति, एकोऽवशिप्यते । अम्मिश्चान्तरे देवगति-देवानुपूर्वी-पञ्चेन्द्रियजाति-क्रिया-ऽऽहारक-तेजस-कार्मण-समचतुरस वैक्रियाङ्गोपाङ्गा-ऽऽहारकाङ्गोपाङ्ग-वर्णादिचतुष्टया--ऽगुरुलघु-उपघात-पराघात-उच्छवास-त्रसबादर-पर्याप्त प्रत्येक प्रशस्तविहायोगति-स्थिर--शुभ-सुभग-सुस्वराऽऽदेय-निर्माण-तीर्थकरसंजिवानां त्रिंशतः प्रकृतीनां बन्धव्यवच्छेदः । ततः स्थितिखण्डपृथक्त्वे गते सति अपूर्वकरणाद्धायाश्चरमसमये हास्य रति-भय-जुगुप्मानां बन्धव्यवच्छेदो हास्य-रति-अरति-शोक-भय-जुगुप्सानामु. दयः सर्वकर्मणां च देशोपशमना-निधत्ति-निकाचनाकरणानि व्यवच्छिद्यन्ते । ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति । अत्रापि स्थितिघातादीनि पूर्ववत् करोति । ततोऽनिवृत्तिकरणाद्धायाः सङ्खये येषु भागेषु गतेषु सत्सु दर्शनसप्तकशेषाणामेकविश' तेर्मोहनीयप्रकृतीनामन्तरकरणं करोति । तत्र चतुणों संज्वलनानामन्यतमस्य वेद्यमानस्य संज्वलनस्य त्रयाणां च वेदानामन्यतमस्य वेद्यमानस्य वेदस्य प्रथमा स्थितिः स्वोदयकालप्रमाणा। अन्येषां चैकादशकपायाणामष्टानां च नोकषायाणां प्रथमा स्थितिरावलिकामात्रा । स्वोदयकालप्रमाणं च चतुर्णा संज्वलनानां
-
-
---
--
१ सं० १ त० म० ०णत्रितयवि० ॥२ सं० म० ०मात्रं उत्की। सं१ ८मात्रां उदीरणां उत्की० ॥३ स०१त. म०स्थितिमध्ये ॥४ छा० रणं चानिवृत्तिवादरगुण ॥५ सं १ त० म० सख्येयतमा भा० ॥ ६ छा० मुद्रिः शतिमोह० ॥७सं १ त० छा० म० थमस्थि० ॥

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602