Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथा
अन्तर्मुहूर्तेन कालेन करोति । अन्तरकरणसत्कं च दलिकमुत्कीर्य प्रथमस्थितौ द्वितीयस्थित च प्रक्षिपति । प्रथमस्थितौ च वर्तमान उदीरणाप्रयोगेण यत् प्रथमस्थितिगतं दलिकं समाकृष्य उदये प्रक्षिपति सा उदीरणा । यत् पुनर्द्वितीयस्थितेः सकाशाद् उदीरणाप्रयोगेणैव दलिकं समाकृष्य उदये प्रक्षिपति सा आगाल इति । उदीरणाया एव विशेषप्रतिपत्यर्थमागाल इति द्वितीयं नाम पूर्वसूरिभिरावेदितम् । उदय उदीरणाभ्यां च प्रथम स्थितिमनुभवन् तावद् गतो यावदावलिकाद्विकं शेषं तिष्ठति । तस्मिव स्थिते आगालो व्यवच्छिद्यते । तत उदीरणैव केवला प्रवर्तते । साऽपि तावद् यावदावलि काशेषो न भवति । आवलिकायां तु शेपीभूतायामुदीरणाऽपि निवर्तते । ततः केवलेनैवोदयेनावलिकामात्रमनुभवति । आवलिकामात्र चरमसमये च द्वितीय स्थितिगतं दलिकमनुभागभेदेन त्रिधा करोति । तद्यथा - सम्यक्त्वं सम्यग्मिथ्यात्वं मिध्यात्वं चेति । उक्तं च कर्मप्रकृतिचूर्णी
२८६
चरमसमयमिच्छट्ठिी सेकाले उवसमसम्मदिट्ठी होहि ताहे बिईयठि तिहाणुभागं करेड़, तं जहा सम्मत्तं सम्मामिच्छतं मिच्छत्तं च । इति । ततोऽनन्तरममये मिथ्यात्वदलिकस्योदयाभावाद् औपशमिकं सम्यक्त्वमवाप्नोति । उक्तं च४ मिच्छत्तदए झीणे, लहए सम्मत्तमोत्रसमियं सो |
लंभेण जस्स' लब्भइ, आयहिय मलद्धपुच्वं जं || ( कर्मप्र० गा० ३३० )
एष च प्रथमसम्यक्त्वलाभो मिथ्यात्वस्य सर्वोपशमनाद् भवति । उक्तं च'सम्मत्तपढमलंभो सव्वोवसमा ( कर्मप्र० गाथा० ३३५ ) इति ।
सम्यक्त्वं चेदं प्रतिपद्यमानः कश्चिद् देशविरतिसहितं प्रतिपद्यते कश्चित् सर्वविरतिसहितम् । उक्तं च पञ्चसङ्ग्रहे
सम्मत्तणं समगं, सव्वं देमं च को पडिवज्जे । ( गा० ७६० ) ततो देशविरत प्रमत्ता - प्रमत्तसंयतेष्वपि मिथ्यात्वमुपशान्तं लभ्यते ।
सम्प्रति वेदकसम्यग्दृष्टेस्त्रयाणामपि दर्शनमोहनीयानामुपशमनाविधिरुच्यते - इह वेदक
१ सं २ ०पति सा आगाल इति । उदीरणैव पूर्वसूरिभिर्विशेषप्रतिपत्त्यर्थमागाल इत्युच्यते । उदय० । छामुद्रि० व्यति सा उदीरणानि पूर्वसूरिमिर्विशेषप्रतिपत्त्यर्थमागाल इत्युच्यते । उदय० ।। २ सं० १० छ००काशेषा न || ३ चरमसमयमिध्यादृष्टिः एष्यत्काले उपशमसम्यग्दृष्टिर्भविष्यति तदा द्वितीयस्थितिं त्रिधातुभगं करोति, तद्यथा - सम्यक्त्वं सम्यग्मिथ्यात्वं मिध्यात्वं च ।। ४ मिध्यात्वोदये क्षीणे लभते सम्यक्त्वमौपशमिकं सः । लाभेन यस्य लभते आत्महितमलब्धपूर्वं यत् ॥ ५ ० १ ० म० मुद्रि० ०स्स मइ । ६ सम्यक्त्वप्रथम लाभः सर्वोपशमात् ॥ ७ सम्यक्त्वेन समकं सर्व देशं च कोऽपि प्रतिपद्यत ।

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602