Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथा
गुणसङ्क्रमो नाम - अपूर्वकरणस्य प्रथमसमयेऽनन्तानुबन्ध्यादीनामशुभप्रकृतीनां दलिकं यत् परप्रकृतिषु सङ्क्रमयति तत् स्तोकम्, ततो द्वितीयसमये परप्रकृतिषु सङ्क्रम्यमाणमसङ्ख्येयगुणम्, ततोऽपि तृतीयसमयेऽसङ्ख्ये यगुणम्, एवं चतुर्थसमयादिष्वपि वक्तव्यम् ।
२८४ ]
अन्यः स्थितिबन्धो नाम - अपूर्वकरणस्य प्रथमसमयेऽन्य एवापूर्वः स्तोकः स्थितिबन्ध आरभ्यते । स्थितिबन्ध-स्थितिघातौ च युगपदारभ्येते युगपदेव च निष्ठां यातः । एवमेते पञ्च पार्था अपूर्वकरणे प्रवर्तन्ते ।
अनिवृत्तिकरणं नाम - यत्र प्रविष्टानां सर्वेषामपि तुल्यकालानामेकमेवाध्यवसायस्थानम् । तथाहि — अनिवृत्तिकरणस्य प्रथमसमये ये वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषां सर्वेषा'मप्येकरूपमेवाध्यवसायस्थानम् द्वितीयसमयेऽपि च ये वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषामपि सर्वेषामेकरूपमध्यवसायस्थानम्, नवरं प्रथमसमयभाविविशोधिस्थानापेक्षयाऽनन्तगुणम्, एवं तावद् वक्तव्यं यावदनिवृत्तिकरणचरमसमयः । अत एवास्मिन् करणे प्रविष्टानां तुल्यकालानामसुमत सम्बन्धिनामध्यवसायस्थानानां परस्परं निवृत्तिः व्यावृत्तिर्न विद्यते इत्यनिवृत्तिरिति नाम अस्मिंश्चानिवृत्तिकरणे यावन्तः समयास्तावन्त्यव्यवसायस्थानानि पूर्वस्मात् पूर्वस्मादनन्तगुणवृद्धानि । एतानि च मुक्तावलीसंस्थानेन स्थापयितव्यानि -- (अत्रापि च प्रथमसमया देवारभ्य सूर्वोक्ताः पञ्च पदार्था युगपत् प्रवर्तन्ते । अनिवृत्तिकरणा: द्वायाश्च सङ्खये यतमेषु भागेषु गतेषु सत्सु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादावलिकामात्रं मुक्त्वाऽन्तमुहूर्त - प्रमाणमन्तरकरणमभिनवस्थितिबन्धाद्धास मेनान्तमुहूर्तप्रमाणेन कालेन करोति, अन्तरकरण सत्कं दलिकमुत्कीर्यमाणं परप्रकृतिषु बध्यमानासु प्रक्षिपति, प्रथमस्थितिगतं च दलिकमावलिकामार्ग प्रद्यमानासु परप्रकृतिषु स्तिचुकसङ्क्रमेण सङ्क्रमयति । अन्तरकरणे कृते सति द्वितीये समयेऽनतानुबन्धिनामुपरितनस्थितिगतं दलिकमुपशमयितुमारभते । तद्यथा - प्रथमसमये स्तोकमुपशमयति, द्वितीयसमयेऽसङ्ख्यं यगुणम्, ततोऽपि तृतीयसमयेऽसङ्खये यगुणम्, एवं यावदन्तर्मुहूर्तम् । एतावता च कालेन साकल्यतोऽनन्तानुबन्धिन उपशमिता भवन्ति । उपशमिता नाम - यथा रेणुनिकरः सलिलबिन्दुनिवतैरभिषिच्य अभिषिच्य द्रुघणादिभिर्निकुट्टितो निःस्यन्दो भवति, तथा कर्मरेणुनिकरोऽपि विशोधिसलिलप्रवाहेण परिषिच्य परिषिच्य अनिवृत्तिकरणरूपद्रुघणनिकुट्टितः सङ्क्रमण उदय उदीरणा-निधत्ति-निकाचनाकरणानामयोग्यो भवति ।
"
-
१ स० १ ० म० षाम के रू० ।। २ सं० १ ० ०न् प्रविष्टा० ॥ ३ स० छा० मुद्रि० ०वृत्तिकरणमिति नाम ॥ ४ सं० १० म० ०षु एक० | ५ स छा० मुद्रि ०हूतं कालम्, एता० ॥ ६ ० १ ० छ०म० ०भिर्निः कुट्टि० ॥ ७ सं० १ ० छ०म० ०णनिःकुट्टि० ॥ छा० मुद्रि• धत्तनि० ॥

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602