Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
२८२ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[गाथाः सन्तं चतुःस्थानकम् । स्थितिबन्धेऽपि च पूर्णे पूर्णे सति अन्य स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमसङ्खये यभागहीनं करोति ।।
इत्थं करणकालात पूर्वमन्तमुह कालं यावदवस्थाय ततो यथाक्रमं त्रीणि करणानि प्रत्येकमान्तमाहूर्तिकानि करोति । तद्यथा--यप्रिवृत्तकरणम् अपूर्वकरणम् अनिवृत्तिकरणं च, चतुर्थी तूपशान्ताद्धा।
तत्र यथाप्रवृत्तकरणे प्रविशन् प्रतिसमयमनन्तगुणवृद्धया विशुद्धया प्रविशति, पूर्वक्तिं च शुभप्रकृतिबन्धादिकं तथैव तत्र कुरुते, न च स्थितिघातं रसघातं गुणश्रेणि गुगसक्रम वा करोति, तद्योग्यविशुद्धयभावात् । प्रतिसमयं च नानाजीवापेक्षयाऽसङ्खथे यलोकाकाशप्रदेशप्रमाणानि अध्यवसायस्थानानि भवन्ति, पट्स्थानपतितानि च । अन्यच्च प्रथमसमयापेक्षया द्वितीयसमयेऽध्यवसायस्थानानि विशेषाधिकानि, ततोऽपि तृतीयसमये विशेषाधिकानि, एवं तावद् वाच्यं यावद् यथाप्रवृत्तकरणचरमसमयः । अन एवेतानि स्थाप्यमानानि विषमचतुरस्त्र क्षेत्रमास्तृणन्ति । स्थापना चेयम्-11008BRARY/ तत्र प्रथमसमये जघन्या विशोधिः सर्वस्तोका, ततो द्वितीयसमये 280018011/ जघन्या विशोधिरनन्तगुणा, ततोऽपि तृतीयममये जघन्या विशोधिर- 40000 /
नन्तगुणा, एवं तावद् वाच्यं यावद् यथाप्रवृत्तकरणाद्धायाः सङ्ख्यं यो भागो गतो भवति । ततः प्रथमसमये उत्कृष्टा विशोधिरनन्तगुणा,ततोऽपि यतो जघन्यस्थानाद् निवृत्तस्तम्योपरितनी जघन्या विशोधिरनन्तगुणा, ततोऽपि द्वितीयसमये उत्कृष्टा विशोधिग्नन्तगुणा, तत उपरि जघन्या विशोधिरनन्तगुणा, एवमुपर्यधश्च कैकं विशोधिस्थानमनन्तगुणतया तावद् नेयं यावद् यथाप्रवृत्तकरणस्य चरमसमये जघन्यं विशोधिस्थानम् । तत उत्कृष्टानि यानि विशोधिस्थानानि अनुक्तानि तिष्ठन्ति तानि निरन्तरमनन्तगुणया वृद्धया तावद् नेव्यानि यावत् चरमसमये उत्कृष्ट विशोधिस्थानम् ।
तदेवमुक्तं यथाप्रवृत्त करणम् । सम्प्रत्यपूर्वकरणमुच्यते-तत्रापूर्वकरणे प्रतिसमयमसङ्खयं यलोकाकाशप्रदेशप्रमाणान्यध्ययमायस्थानानि भवन्ति, प्रतिसमयं च पट्स्थान पतितानि । तत्र प्रथमममये जघन्या विशोधिः सर्वस्तोका, सा च यथाप्रवृत्तकरणचरमसमयसत्कोत्कृष्ट विशोधिस्थानादनन्तगुणा, ततः प्रथमसमय एवोत्कृष्टा विशोधिरनन्तगुणा, ततोऽपि द्वितीयसमये जघन्या विशोधिग्नन्तगुणा, ततोऽपि तस्मिन्नेव द्वितीयसमये उत्कृष्टा विशोधिरनन्तगुणा, ततोऽपि तृतीयममये जघन्या विशोधिरनन्तगुणा, ततोऽपि तस्मिन्नेव तृतीये समये उत्कृष्टा विशोधिरनन्तगुणा, एवं प्रति-57080PM समयं तावद् वक्तव्यं यावत् चरमसमये उत्कृष्टा विशोधिः । स्थापना- ina)
choole0000१४ 60mombo0018
mooo000" 30000008 200005७ 100TV

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602