Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 576
________________ २८३ चन्द्रमिहत्तर कृतं सप्ततिकाप्रकरणम् । अम्मिश्चापूर्वकरणे प्रथमसमये एव स्थितिघातो रसघातो गुणश्रेणिगुणसङ्क्रमोऽन्यश्च स्थितिबन्ध इति पञ्च पदार्था युगपत् प्रवर्तन्ते । ६२ ] तत्र स्थितिघातो नाम-स्थितिसत्कर्मणोऽग्रिमभागाद् उत्कर्षतः प्रभूतसागरोपमशतप्रमाणं जघन्यतः पल्यो 'पमसङ्ख्ये यभागमात्रं स्थितिखण्डमुत्किरति खण्डयतीत्यर्थः, उत्कीर्य च याः स्थितीरधो न खण्डयिष्यति तत्र तद् दलिकं प्रक्षिपति, अन्तर्मुहूर्तेन च कालेन तत् स्थितिखण्डमुत्कीर्यते । ततः पुनरप्यधस्तात् पल्यो' पमसङ्ख्ये यभागमात्रं स्थितिखण्डमन्तमुहूर्तेन कालेनोत्किरति, पूर्वोक्तप्रकारेणैव च निक्षिपति । एवमपूर्वकरणाद्धायां प्रभूतानि स्थितिखण्ड सहस्राणि व्यतिक्रामन्ति । तथा च सति अपूर्वकरणस्य प्रथमसमये यत् स्थितिसत्कर्म आसीत् तत् तस्यैव चरमसमये सङ्ख्ये यगुणहीनं जातम् । रसघातो नाम-अशुभप्रकृतीनां यद् अनुभागसत्कर्म तस्यानन्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्तेन कालेन विनाशयति, ततः पुनरपि तस्य प्राग्मुक्तस्यानन्ततमभागस्यानन्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्तेन कालेन विनाशयति ततः पुनरपि तस्य प्रारमुक्तस्यानन्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्तेन कालेन विनाशयति । एवमनेकान्यनुभागखण्ड सहस्राण्येकस्मिन् स्थितिखण्डे व्यतिक्रामन्ति । तेपां च स्थितिखण्डानां सहस्रपूर्वकरणं परिसमाप्यते । > गुणश्रेणिर्ना - अन्तर्मुहूर्तप्रमाणानां स्थितीनामुपरि याः स्थितयो वर्तन्ते तन्मध्याद् दलिकं गृहीत्वा उदद्यावलिकाया उपस्तिनीषु स्थितिषु प्रतिसमयमसङ्घये यगुणतया निचिपति । तद्यथाप्रथमसमये स्तोकम्, द्वितीयसमयेऽसङ्खयं यगुणम्, ततोऽपि तृतीये समयेऽसङ्ख्ये यगुणम् एवं तावद् नेयं यावदन्तमुहूर्तचरमसमयः । तच्चान्तर्मुहूर्तमपूर्वकरणा-ऽनिवृत्तिकरणकालाभ्यां मनागतिरिक्तं वेदितव्यम् । एप प्रथमसमयगृहीतदलिकस्य निक्षेपविधिः । एवं द्वितीयादिसमयगृहीतानामपि दलिकानां निक्षेपो वक्तव्यः । अन्यच्च - गुणश्रेणिरचनाय प्रथमसमये यद् दलिकं गृह्यते तत् स्तोकम्, ततोऽपि द्वितीयसमयेऽसङ्ख्यं यगुणम्, ततोऽपि तृतीयममयेऽसङ्ख्ये यगुणम्, एवं तावद् ज्ञेयं यावद् गुणश्रेणिकरण चरमसमयः । अपूर्वकरणसमयेषु अनिवृत्तिकरणसमयेषु चानुभवतः क्रमशः क्षीयमाणेषु गुणश्रेणिदलिकनिक्षेपः शेषे शेषे भवति, उपरि च न वर्धते । १ सं० १ ० छ०म० व्पमास० ॥ २ ० १ ० ० ०पमा स० ।। ३ सं० १ ० म० ०हूर्तेनैव का० ॥ ४ सं० सं० २ मुद्रि० ०न अशेषानपि त्रिना० ॥ ५ फुल्लिकायान्तर्वर्ती पाठः छा० मुद्रिः प्रत्योरेव दृश्यते, नान्यासु प्रतिषु ॥ ६ सं० १ ० छा० ०पः शेषे भव० ॥

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602