Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
६२]
चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् ।
२८५ तदेवमेकपामाचार्याणां मतेनानन्तानुवन्धिनामुपशमनाऽभिहिता । अन्ये त्याचक्षतेअनन्तानुबन्धिनामुपशमना न भवति, किन्तु विसंयोजनैव । विसंयोजना क्षपणा, सा चैवम्
इह श्रेणिमप्रतिपद्यमाना अपि अविरताश्चतुर्गतिका 'अपि वेदकसम्यग्दृष्टयो देशविरतास्तिर्यश्चो मनुष्या वा सर्वविरता मनुष्या एव सर्वाभिः पर्याप्तिभिः पर्याप्ता अनन्तानुबन्धिनां क्षपणार्थ यथाप्रवृत्तादीनि त्रीणि करणानि कुर्वन्ति । करणवक्तव्यता च सर्वाऽपि प्रागिव निरवशेषा वेदितव्या । नवरमिहानिवृत्तिकरणे प्रविष्टः सन् अन्तरकरणं न करोति । उक्तं च कर्मप्रकृती
"चउगइया पन्जत्ता, तिन्नि वि संजोयणे विजोयंति ।।
करणेहिं तीहिँ सहिया, नंतरकरणं उबसमो वा ॥ (गा० ३४३) किन्तु कर्मप्रकृत्यभिहितस्वरूपेणोद्वलनासक्रमेणाधस्तादावलिकामानं मुक्त्वा उपरि निरवशेषान् अनन्तानुबन्धिनो विनाशयति । आवलिकामात्र तु स्तिबुकमक्रमेण वेद्यमानासु प्रकृतिषु सङ्क्रमयति । ततोऽनन्तरमन्तर्मुहूर्तात् परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणां स्थितिघात-रस. घात-गुणश्रेणयो न भवन्ति किन्तु स्वभावस्थ एव स जीवो जायते ।
__ तदेवमुक्ता अनन्तानुबन्धिनां विसंयोजना, सम्प्रति दर्शनत्रिकस्योपशमना भण्यते-तत्र मिथ्यात्वस्योपशमना मिथ्यादृष्टेर्वेदकसम्यग्दृष्टेश्च । सम्यक्त्व-सम्यग्मिथ्यात्वयोस्तु वेदकसम्यग्दृप्टरेव । तत्र मिथ्यादृष्टेमिथ्यात्वोपशमना प्रथमसम्यक्त्वमुत्पादयतः । साचैवम्-पञ्चेन्द्रियः संज्ञी सर्वाभिः पर्याप्तिभिः पर्याप्तः करणकालात् पूर्वमप्यन्तमुहू ते कालं प्रतिसमयमनन्तगुणवृद्धया विशुद्धया प्रवर्धमानोऽभव्यमिद्धिकविशुद्धयपेक्षया अनन्तगुणविशुद्धिको मति-श्रुताज्ञान विभङ्गज्ञानानामन्यतमस्मिन् साकारोपयोगे उपयुक्तोऽन्यतमस्मिन योगे वर्तमानो जघन्यपरिणामेन तेजोलेश्यायां मध्यमपरिमाणे न पद्मलेश्यायां उत्कृष्टपरिणामेन शुक्ललेश्यायां वर्तमानो मिथ्यादृष्टिश्चतुगनिकोऽन्तःसागरोपमकोटीकोटीस्थितिसत्कर्मा इत्यादि पूर्वोक्तं तदेव तावद् वक्तव्यं यावद् यथाप्रवृत्तकरणमपूर्वकरणं च परिपूर्ण भवति । नवरमिहापूर्वकरणे गुणसङ्क्रमो न वक्तव्यः, किन्तु स्थितिघात-रसघात-स्थितिबन्ध गुणश्रेणय एव वक्तव्याः, गुणणिदलिकरचनाऽप्युदयसमयादारभ्य वेदितव्या । ततोऽनिवृत्तिकरणेऽप्येवमेव वक्तव्यम् । अनिवृत्तिकरणाद्धायाश्च सवय येषु भागेषु गतेषु सत्सु एकस्मिन् सङ्खये यतमे भागेऽवतिष्ठमानेऽन्तमुहूर्तमात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणमन्तमुहर्तप्रमाणं प्रथमस्थितेः किश्चित् समधिकम् अभिनवस्थितिबन्धाद्धासमेन
१ स० १ त० म० अपि अविरतसम्य० ॥ २ सं ० १ त० म० ०रताश्च तिर्य० ॥ ३ चतुर्गतिकाः पर्याप्तात्रयोऽपि संयोजनान् वियोजयन्ति । करणनिभिः सहिता नान्तरकरणमुपशमो वा ।। ४ स. १ त० म००हुतकालं ॥

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602