Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 571
________________ [ गाधा मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं स्वस्वभवपर्यन्तावलिकायामुदय एव नोदीरणा, अन्यत्र मनुष्यायुषः प्रमत्त गुणस्थानकादुर्ध्वमुदीरणा न भवति किन्तूदय एव केवलः ३१' । तथा मनुष्यगति पञ्चेन्द्रियजाति त्रस बादर-पर्याप्त सुभगा ऽऽदेय-यशः कीर्ति तीर्थंकररूपाणां नवनामप्रकृतीनां ४० उच्चगोत्रस्य च ४१ सयोगिकेवलिगुणस्थानकं यावद् युगपद् उदय उदीरणे, अयोग्यवस्थायां तृदय एव नोदीरणा ||१५|| २७८ सम्प्रति कस्मिन् गुणस्थानके काः प्रकृनीर्वघ्नाति ? इति बन्धविशेषनिरूपणार्थमाहतित्थगराहारगविरहियाओं अज्जेइ सव्यपगईओ | मिच्छतवेयगो सासणो वि इगुवीससे लाओ || ५६ ।। इह बन्धे प्रकृतीनां विंशं शतमधिक्रियते एतच प्रागेव प्रकृतिवर्णनायामुक्तम् । तत्र ‘मिथ्यात्ववेदकः, मिथ्यादृष्टिः 'तीर्थकर ऽऽहारकरहिताः ' तीर्थकरा - ऽऽहारकशरीग-ऽऽहारकाङ्गोपाङ्गवर्णाः शेषाः सर्वा अपि प्रकृतीः सप्तदशोत्तरशतमङ्ख्या: 'अर्जयति' वध्नाति तीर्थकरा-SSहारकद्विके तु न तस्य चन्धमायातः, तयोर्यथामङ्ख्यं सम्यक्त्व-संयमप्रत्ययत्वात् । तथा 'सामाद'नोऽपि ' सासादनसम्यग्दृष्टिरपि 'एकोनविंशतिशेषाः' एकोनविंशतिवर्जाः शेर्पा एकोत्तरशतसङ्ख्याः प्रकृतीध्नाति । तत्र तिस्रः प्रकृतयः प्राक्तव्य एव, तासां बन्धाभावे कारणमिहापि तदेवानुसरणीयम् : शेषास्तु षोडश प्रकृतय इमाः -- मिध्यात्वं नपुंसकवेदः नरकगतिः नरकानुपुर्वी नरकायुः एक-द्वि-त्रि- चतुरिन्द्रियजातयः इण्डसंस्थानं सेवार्त संहननम् आतपनाम स्थावग्नाम सूक्ष्मनाम साधारणनाम अपर्याप्तकनामेति । एता हि मिध्यात्वोदर्यानिमित्ताः, न च मिध्यात्वोदयः सासादने विद्यते इत्येता अपि सासादनस्य न बन्धमायान्ति ॥ ५६ ॥ छायालसेस मीसो, अविग्यसम्मो तियाल परिसेसा | तेवण्ण देसविरओ, विरओ सगवण्णसेसाओ ||१७|| 'मिश्रः' सम्यग्मिध्यादृष्टिः 'पट्चत्वारिंशच्छेषाः, षट्चत्वारिंशद्वजाः चतुःसप्ततिसङ्ख्याः प्रक्रतीर्बध्नाति । तत्रकोनविंशतिप्रकृतयां बन्धायोग्याः प्राक्तन्य एव शेपास्त्विमा:- स्त्यानद्धित्रिकम् अनन्तानुबन्धिचतुष्टयं स्त्रीवेदः तिर्यग्गतिः तिर्यगानुपूर्वी तिर्यगायुः प्रथमा ऽन्तिमवर्णानि चत्वारि संस्थानानि प्रथमा - ऽन्तिमत्रर्जानि चत्वारि संहननानि उद्योतम् अप्रशस्तविहायोगतिः दुर्भगं दुःस्वरम् अनादेयं नीचैगोत्रमिति । एताः पञ्चविंशतिप्रकृतयोऽनन्तानुबन्ध्युदयनिमित्ताः, न च १ इत उर्ध्वम् - मणुयगइजाइतसवादरं च पज्जससुभगमाइज्ज । जसकित्ती तित्थयर नामस्स हव नव एया।। इत्येषा गाथा सूत्र ॥ यातयोपात्त मुद्रितादर्श एवं विद्यते न च स्मत्पार्श्ववर्तिषु समप्रादर्शष्विति नहताम्मा भिरत्र ।। २ सं० १ ० म० छा० नवाना नामप्र० ॥

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602