Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 572
________________ चन्द्रमित्रकृतं सप्ततिकाप्रकरणम् । सम्यग्मिथ्यादृष्टावनन्तानुबन्धिनामुदयोऽस्ति, ततो न बन्धमायान्ति । अन्यच्च सम्यग्मिथ्यादृष्टिरायुर्वन्धमपि नारभते, ततो मनुष्य देवायुषी अपि न बन्धमायात इति षट्चत्वारिंशदप्येताः प्रतिषिध्यन्ते । तथा अविरतसम्यग्दृष्टिस्त्रिचत्वारिंशद्वर्जाः शेषाः सप्तसप्ततिप्रकृतीध्नाति । अविसम्यग्दृष्टिर्हि मनुष्य- देवायुषी अपिबध्नाति तीर्थकरनाम च, ततः शेषा एवं त्रिचत्वारिंशत् प्रकृयो वर्ज्यन्ते । तथा देशविरतः 'त्रिपञ्चाशच्छेषाः ' त्रिपञ्चाशद्वर्जाः शेषाः सप्तषष्टिप्रकृतीर्बध्नाति । तत्र विचत्वारिंशत् प्रकृतयो बन्धायोग्याः प्राक्तन्य एव, शेषाः पुनरिमाः - अप्रत्याख्यानचतुष्टयं मनुष्यगतिः मनुष्यानुपूर्वी मनुष्यायुः औदारिकशरीरम् औदारिकाङ्गोपाङ्ग वज्रर्षभनाराचसंहननम् एता हि दश प्रकृतयोऽविरतिहेतव इति न देशविरते बन्धमागच्छन्ति । तथा 'विरतः ' प्रमत्तसंयतः 'सप्तपञ्चाशच्छेपा: ' सप्तपञ्चाशद्वर्जाः शेषास्त्रिषष्टिप्रकृतीर्बध्नाति । तत्र त्रिपञ्चाशद् बन्धायोग्याः प्राक्तन्य एव शेषास्तु चतस्रः प्रकृतयः प्रत्याख्यानावरण क्रोध- मान-माया-लोभरूपाः । एता हि देशविरत एवं बन्धं प्रतीत्य व्यवच्छिन्नाः ॥५७॥ ॥ " ५५-५८ ] २७६ सम्प्रति प्रतिषेद्धव्याः प्रकृतयो बह्नयो बन्धयोग्यास्तु स्तोका इति बन्धयोग्या एव निर्दिशतिइगुसमिप्पमत्तो, बंधइ देवाउग्रस्स इयरो वि । अट्ठावण्णमपुव्वा, छप्पण्णं वा वि छव्वीसं ।। ५८ ।। 'अप्रमत्तः' अप्रमत्तसंयत एकोनषष्टिप्रकृतीर्बध्नाति । ताश्च प्रमत्तसंयतस्य बन्धयोग्यात्रिषष्टिप्रकृतयोऽसात वेदनीया-रति-शोका ऽस्थिरा ऽशुभा ऽयशः कीर्तिवर्जा आहारकद्विकसहिता वेदितव्याः, असातावेदनीयादयो हि षट् प्रकृतयः प्रमत्तसंयत गुणस्थानक एवं बन्धं प्रतीत्य व्यवच्छिन्नाः, आहारकद्विकं चाप्रमत्तो विशिष्टसंयमभावाद् बध्नाति तत एकोनषष्टिप्रकृतयोऽप्रमत्तस्य बन्धयोग्याः | "देवाउयस्स इयरो वि" त्ति 'इतरोऽपि' अप्रमत्तोऽपि देवायुषो बन्धकः । एतेनं तत् सूच्यते - प्रमत्तसंयत एवायुबन्धं प्रथमत आरभते, आरभ्य च कश्चिदप्रमत्तभावमपि गच्छति, तत एवमप्रमत्तमयतोऽपि देवायुषो 'वन्धको भवति, न पुनरप्रमत्तसंयत एव सन् प्रथमत आयुर्वन्धमारभत इति । तथा 'अपूर्व:' अपूर्वकरणोऽष्टपञ्चाशत् प्रकृतीर्वध्नाति तस्य देवायुबन्धाभावात् । ताश्राष्टपञ्चाशत् प्रकृतीस्तावद् बध्नाति यावदपूर्वकरणाद्वायाः सङ्ख्यं यतमो भागो गतो भवति । ततो निद्रा प्रचलयोरपि बन्धव्यवच्छेदात् षट्पञ्चाशत्प्रकृतीर्वध्नाति ता अपि तावद् यावदपूर्वकरणाद्वाया एकः सङ्ख्यं यतमो भागोऽवशिष्यते । ततो देवगति - देवानुपूर्वी - पञ्चेन्द्रियजाति-वैक्रियशरीर-वैक्रियाङ्गोपाङ्गा--ऽऽहारकशरीरा--ऽऽहारकाङ्गोपाङ्ग - तेजस-कार्मण समचतुरस्रसंस्थान वर्ण-रस- गन्धस्पर्शा-गुरुलघु-उपघात- पराघात उच्छ्वास प्रशस्तविहायोगति त्रस - बादर , १ मुद्रि० बद्धा म० । २ ० १ ० म० • एवायुर्वन्धं प्रथमत भार• ॥

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602