Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 570
________________ ५३-५५ ] चन्द्रर्पिमहत्तरकृतं सप्ततिकाप्रकरणम् । नुभवन मुदीग्णा, अनयोरुदय-उदीरणयोः 'म्वामित्वात' स्वामित्वमधिकृत्य विशेषो न विद्यते । एतदुक्तं भवति-य एव ज्ञानावरणादीनां कर्मणामुदयस्वामी स एव तेषां कर्मणामुदीरणाया अपि स्वामी, " जत्थ उओ तत्थ उदीरणा, जत्थ उदीरणा तत्थ उदओ।" इतिवचनप्रामाण्यात् । तत्रातिप्रसक्तं लक्षामित्यपवादमाह-'' मोत्तण य" इत्यादि । 'मुक्त्वा एकचत्वा. रिशतं' एव चत्वारिंशत्प्रकृतीमुवत्वा शेषाणां सर्वासां प्रकृतीनामुदय-उकीरणयोः स्वामिनं प्रति न विशेषः ।। १४ ।। एकचत्वारिंश प्रकृतीनिर्दिशतिनागांतरायदसगं दपणनव वेयणिज्ज मित्तं । सम्मत्त लाभ वेगाऽऽउ गाणि नवनाम उच्चं च ॥५५ ।। एतामामेकचत्वारिंशत्प्रकृतीनामुदीरणामन्तरेणाप्युदयो भवति । तथाहि--पञ्चानां ज्ञानावग्णप्रकृतीनां ५ पञ्चानामन्तराय प्रकृतीनां १० चतसृणां च चक्षः-अचक्षः-अवधि केवलदर्शनाव रणरूपाणां दर्शनावरणप्रकृतीनामुदय उदीरणा च सर्वजीवानां युगपत तावत् प्रवर्तते यावत् . क्षीणमोहगुणस्थानकाद्धाया आवलिकाशेपो न भवति १४, आवलिकायां तु शेषीभूतायामुदय एव नोदीरणा, आवलिकागतस्यादीरणानह त्यात् । निद्रापञ्चकरय शीर पर्याप्त्या पर्याप्तानां शरीरपर्याप्तिसमाप्न्यनन्तरसमयाद् आरभ्य यावद् इन्द्रियपर्याप्तिपरिसमाप्तिनोपजायते तावद् उदय एव नोदीरणा, शेपकालं तूदय उदीरणे युगपत् प्रवते युगपच्च निवर्तते १५ । द्वयोर्वेदनीययोः पुनः प्रमत्तगुणस्थानकं यावद् उदय उदीरणा च युगपत् प्रवर्तते, परतस्तूदय एव नोदीरणा २१ । तथा प्रथमसम्यक्त्वमुत्पादयतोऽन्तरकरणे कृते सति प्रथमस्थितावावलिकाशेषायां मिथ्यात्वस्योदय एव नोदोरणा २२ । तथा वेदकसम्यग्दृष्टिना क्षायिकसम्यक्त्वमुत्पादयता मिथ्यात्व-सम्यग्मिथ्यात्वयोः क्षपितयोः सम्यक्त्वं सर्वापवर्तनयाऽपवर्त्य अन्तर्मुहूर्तस्थितिकं कृतम् , तत उदय-उदीरणाभ्यामनुभूयमानश्मनुभृयमानमावलिकाशेषं यदा भवति तदा सम्यक्त्वस्योदय एव नोदीरणा, अथवा उपशमश्रेणिं प्रतिपद्यमानस्य अन्तरकरणे कृते सति प्रथमस्थितावावलिकाशेपायां सम्यक्त्वस्योदय एव नोदीरणा २३ । संज्वलनलोभस्य उदय उदीरणा च युगपन तावत् प्रवर्तते यावत् सूक्ष्मसम्परायाद्धाया आवलिका शेषा, तत आवलिकामानं कालमुदय एव नोदीरणा २४ । तथा त्रयाणां वेदानामन्यतमेन तेन तेन वेदेन श्रेणिं प्रतिपन्नस्यान्तरकरणे कृते तस्य तस्य वेदस्य प्रथमस्थितावावलिकाशेषायामुदय एव नोदीरणा २७। चतुर्णामप्या १ यत्र उत्व यस्ता उदीरणा, यत्र उदीरणा तत्र उदयः ॥ २ सं० १ त० म० छा० मुत्त ।। ३ स १ न० म० ०उयाणि ॥ ४ सं० सं २०रणप्रकृती॥५ स० सं०१ मनमावलि ॥६ सं १ स २ त० म० ०काशपः ।।

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602