________________
५३-५५ ]
चन्द्रर्पिमहत्तरकृतं सप्ततिकाप्रकरणम् । नुभवन मुदीग्णा, अनयोरुदय-उदीरणयोः 'म्वामित्वात' स्वामित्वमधिकृत्य विशेषो न विद्यते । एतदुक्तं भवति-य एव ज्ञानावरणादीनां कर्मणामुदयस्वामी स एव तेषां कर्मणामुदीरणाया अपि स्वामी, " जत्थ उओ तत्थ उदीरणा, जत्थ उदीरणा तत्थ उदओ।" इतिवचनप्रामाण्यात् ।
तत्रातिप्रसक्तं लक्षामित्यपवादमाह-'' मोत्तण य" इत्यादि । 'मुक्त्वा एकचत्वा. रिशतं' एव चत्वारिंशत्प्रकृतीमुवत्वा शेषाणां सर्वासां प्रकृतीनामुदय-उकीरणयोः स्वामिनं प्रति न विशेषः ।। १४ ।।
एकचत्वारिंश प्रकृतीनिर्दिशतिनागांतरायदसगं दपणनव वेयणिज्ज मित्तं ।
सम्मत्त लाभ वेगाऽऽउ गाणि नवनाम उच्चं च ॥५५ ।।
एतामामेकचत्वारिंशत्प्रकृतीनामुदीरणामन्तरेणाप्युदयो भवति । तथाहि--पञ्चानां ज्ञानावग्णप्रकृतीनां ५ पञ्चानामन्तराय प्रकृतीनां १० चतसृणां च चक्षः-अचक्षः-अवधि केवलदर्शनाव रणरूपाणां दर्शनावरणप्रकृतीनामुदय उदीरणा च सर्वजीवानां युगपत तावत् प्रवर्तते यावत् . क्षीणमोहगुणस्थानकाद्धाया आवलिकाशेपो न भवति १४, आवलिकायां तु शेषीभूतायामुदय एव नोदीरणा, आवलिकागतस्यादीरणानह त्यात् । निद्रापञ्चकरय शीर पर्याप्त्या पर्याप्तानां शरीरपर्याप्तिसमाप्न्यनन्तरसमयाद् आरभ्य यावद् इन्द्रियपर्याप्तिपरिसमाप्तिनोपजायते तावद् उदय एव नोदीरणा, शेपकालं तूदय उदीरणे युगपत् प्रवते युगपच्च निवर्तते १५ । द्वयोर्वेदनीययोः पुनः प्रमत्तगुणस्थानकं यावद् उदय उदीरणा च युगपत् प्रवर्तते, परतस्तूदय एव नोदीरणा २१ । तथा प्रथमसम्यक्त्वमुत्पादयतोऽन्तरकरणे कृते सति प्रथमस्थितावावलिकाशेषायां मिथ्यात्वस्योदय एव नोदोरणा २२ । तथा वेदकसम्यग्दृष्टिना क्षायिकसम्यक्त्वमुत्पादयता मिथ्यात्व-सम्यग्मिथ्यात्वयोः क्षपितयोः सम्यक्त्वं सर्वापवर्तनयाऽपवर्त्य अन्तर्मुहूर्तस्थितिकं कृतम् , तत उदय-उदीरणाभ्यामनुभूयमानश्मनुभृयमानमावलिकाशेषं यदा भवति तदा सम्यक्त्वस्योदय एव नोदीरणा, अथवा उपशमश्रेणिं प्रतिपद्यमानस्य अन्तरकरणे कृते सति प्रथमस्थितावावलिकाशेपायां सम्यक्त्वस्योदय एव नोदीरणा २३ । संज्वलनलोभस्य उदय उदीरणा च युगपन तावत् प्रवर्तते यावत् सूक्ष्मसम्परायाद्धाया आवलिका शेषा, तत आवलिकामानं कालमुदय एव नोदीरणा २४ । तथा त्रयाणां वेदानामन्यतमेन तेन तेन वेदेन श्रेणिं प्रतिपन्नस्यान्तरकरणे कृते तस्य तस्य वेदस्य प्रथमस्थितावावलिकाशेषायामुदय एव नोदीरणा २७। चतुर्णामप्या
१ यत्र उत्व यस्ता उदीरणा, यत्र उदीरणा तत्र उदयः ॥ २ सं० १ त० म० छा० मुत्त ।। ३ स १ न० म० ०उयाणि ॥ ४ सं० सं २०रणप्रकृती॥५ स० सं०१ मनमावलि ॥६ सं १ स २ त० म० ०काशपः ।।