Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 568
________________ २७५ ५२-५३ ] चन्द्रषिमहत्तरकृतं सप्रतिकाप्रकरणम। वसेयानि, अन्यत्र पञ्चेन्द्रियम्य मत एकत्रिंशदुदयाभावात् । पडशीनिश्च मिध्यादृष्टीनां तिर्य पञ्चेन्द्रियाणामवसे या. न सम्यग्दृष्टीनाम् , सम्यग्दृष्टीनामवश्यं देवद्विकबन्धसम्भवेनाष्टाशीतिमम्भवात् । अत्र सर्वसङ्ख्यया मत्तास्थानान्येकोनविंशतिः १९ । एकोनत्रिंशद्वन्धकस्य तान्येवा. ष्टावुदयस्थानानि । तत्रैकविंशत्युदये षड्विंशत्युदये च सप्त सप्त सत्तास्थानानि । तद्यथा-- द्विनवतिः अष्टाशीतिः पडशीतिः अशीतिः अष्टसप्ततिः त्रिनवतिः एकोननवतिः । तत्र तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं बध्नत आद्यानि पञ्च, मनुष्यगतिप्रायोग्यां बध्नत आधानि चत्वारि, देवगतिप्रायोग्यां बध्नतोऽन्तिमे द्वे अष्टाविंशति-एकोनत्रिंशत्-त्रिंशदुदये'षु एतान्येवाष्टसप्ततिवर्जानि पट पट सत्तास्थानानि । एकत्रिंशदुदये आधानि चत्वारि । पञ्चविंशति-सप्तविंशत्युदययोः पुनरिमानि चत्वारि चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः त्रिनवतिः एकोननवतिश्च । साङ्कम्थापना-- ४२४१, सर्वसङ्घययकोनविंशद्वन्धे चतुश्चत्वारिंशत् सत्तास्थानानि । त्रिंशद्वन्धकस्यापि तान्येवाष्टावुदयस्थानानि, तान्येव च प्रत्येकं सत्तास्थानानि । केवलमिह कविंशत्युदये आद्यानि द्विनवति--अष्टाशीति--पडशीति-- अशीति अष्टसप्ततिरूपाणि पश्न सत्तास्थानानि तिर्यग्गतिप्रायोग्यामेव त्रिंशतं बध्नतो वेदितव्यानि, न मनुष्यगतिप्रायोग्याम् , तस्यास्तीर्थकरनामसहितत्वात् । देवगतिप्रायोग्या तु त्रिंशदाहारकद्विकपहिता सा एकविंशत्युदये न सम्भवति । त्रिनयति एकोननवती मनुष्यगतिप्रायोग्यां त्रिशतं बनतो देवस्य वेदितव्ये । पड़िवशत्युदये च तान्येव पश्च सत्तास्थानानि, न त्रिनवति-एकोननवती। पविशत्युदयो हि तिरश्चां मनुष्याणां वाऽपर्याप्तावस्थायाम् , न च तदानीं दवगतिप्रायोग्याया मनुष्यगतिप्रायोग्याया' वा त्रिंशतो बन्धोऽस्तीति विनवति-एकोननवती न प्राप्येते. शेपं तथैव । सर्वाङ्कस्थापना--२४२५१.१ ..', सर्वसङ्ख्यया त्रिं-- शद्वन्धे द्विचत्वारिंशत सत्तास्थानानि । एकत्रिंशद्वन्धकस्य एकविधवन्धकस्य चोदयसत्तास्थानसंवेधो यथा प्राग मनुष्यस्योक्तस्तथैव वक्तव्यः । तदेवमिन्द्रियाण्यधिकृत्य संवेध उक्तः ।।५२॥ इय कम्मपगइठाणाइँ सु? बंधुदयसंतकम्माणं । गइआइएहिं अट्ठसु, चउप्पगारेण नेपाणि ॥५३॥ 'इति' उक्तेन प्रकारेण 'बन्ध-उदय-सत्कर्मणा' बन्ध-उदय-मत्तानां सम्बन्धीनि कर्मप्रकृतिस्थानानि 'सुष्टु' अत्यन्तमुपयोगं कृत्वा 'गत्यादिभिः, १ छा० मुद्रि० °षु तान्ये० ।। २ सं० सं० २ मदि० व्याविंश० ॥ ३ सं० १६० म० व्यः । सर्वमंख्यया बत्तास्थानानि त्रिशे द्वे शते २३० । तदे० ।।

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602