Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 566
________________ २७३ ५१-५२ ] चन्द्रर्षिमहत्तरकृतं सप्तति काप्रकरणम् एकोनाशीतिः पट्पप्ततिः पञ्च सप्ततिश्च । सर्वबन्धस्थान-उदयस्थानापेक्षया सत्तास्थानानि शतमेकोनपष्टयधिकम् १५६, तद्यथा-त्रयोविंशति-पञ्चविंशति-पड्विशतिबन्धेषु प्रत्येकं चतुर्विंशचतुर्विंशतिः, अष्टाविंशतिवन्धे षोडश, मनुज-तिर्यग्गतिप्रायोग्यैकोनत्रिंशद्वन्धे (त्रिंशति च)प्रत्येक चतुर्विंशतिश्चतुर्विंशतिः, देवगतिप्रायोग्यतीर्थकरसहितकोनत्रिंशद्वन्धे चतुर्दश, एकत्रिंशद्वन्धे एकम् , एकप्रकृतिवन्धऽष्टाविति । बन्धाभावे उदयस्थान-सत्तास्थानयोः परस्परसंवेधः सामान्यतः संवेधचिन्तायामिव वेदितव्यः । सम्प्रति देवानां संवैध उच्यते-तत्र देवानां पञ्चविंशतिवन्धकानां षट्स्वप्युदयस्थानेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च । एवं पविशति-एकोनत्रिंशद्वन्धकानामपि वेदितव्यम् । उद्योतसाहितां तिर्यक्पञ्चेन्द्रियप्रायोग्यां त्रिंशतमपि बध्नतामेवमेव । तीर्थकरसहितां पुनस्त्रिंशतमर्थाद् मनुष्यगतिप्रायोग्यां वध्नतां षटम्बपि उदयस्थानेषु द्वे द्वे सत्तास्थाने, तद्यथा-त्रिनवतिः एकोननवतिश्च । सर्वसङ्ख्यया सत्तास्थानानि पष्टिः॥५१।। तदेवं गतिमाश्रित्योक्तम् । सम्प्रति इन्द्रियमाश्रित्याभिधीयतेइग विगलिंदिय सगले, पण पंच य अट्ठ बंधठाणाणि । पण छक्केकारुदया, पण पण बारस य संताणि ।। ५२ ।। एकेन्द्रिय-विकलेन्द्रिय पञ्चेन्द्रियाणां यथाक्रमं बन्धस्थानानि पञ्च पञ्च अष्टौ । तत्रैकेन्द्रियाणाममूनि पञ्च बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः पविशतिः एकोनत्रिंशत् त्रिंशत् । नत्र देवगनिप्रायोग्यामेकोनत्रिंशतं त्रिंशतं च वर्जयित्वा शेषाणि सर्वाण्यपि सर्वगतिप्रायोग्याणि सप्र दानि वक्तव्यानि । विकलेन्द्रियाणां त्रयाणामपि इमान्येव पञ्च पञ्च बन्धस्थानानि । पञ्चेन्द्रियाणां सर्वाण्यपि बन्धस्थानानि सर्वगतिप्रायोग्याणि सप्रभेदानि द्रष्टव्यानि । सम्प्रत्युदयस्थानान्गुच्यन्ते-"पण छक्केकारुदय' ति एकेन्द्रिय विकलेन्द्रिय-पञ्चेन्द्रियाणां यथाक्रमं पञ्च षड् एकादश उदयस्थानानि । तत्र केन्द्रियाणाममूनि पञ्च उदयस्थानानि, तबथा-एकविशतिः चतुर्विंशतिः पञ्चविंशतिः पड्विशतिः सप्तविंशतिश्चः एतानि सप्रभेदानि प्रागिव बेदितव्यानि : विकलेन्द्रियाणां पड़ उदयस्थानानि, तद्यथा-एकविंशतिः पड्विंशतिः अष्टाविंशनिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् ; एतान्यपि यथाऽधस्तादुक्तानि तथैव वक्तव्यानि । पञ्चेन्द्रियाणाममृन्येकादशोदयस्थानानि, तयथा-विंशतिः एकविंशतिः पञ्चविंशतिः पविशतिः साविंशतिः अष्टाविंशतिः एकोनत्रिंशतः त्रिंशद् एकत्रिंशद् नव अष्टो च । एकेन्द्रिय-विकलेन्द्रियसन्कान्युदयस्थानानि वर्जयित्वा शेषाणि सर्वाण्यपि पञ्चेन्द्रियाणां सप्रभेदानि वक्तव्यानि । १ मुद्रिक छा० ०दानि बन्धस्थानानि वक्त० ॥ 35

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602