________________
२७३
५१-५२ ]
चन्द्रर्षिमहत्तरकृतं सप्तति काप्रकरणम् एकोनाशीतिः पट्पप्ततिः पञ्च सप्ततिश्च । सर्वबन्धस्थान-उदयस्थानापेक्षया सत्तास्थानानि शतमेकोनपष्टयधिकम् १५६, तद्यथा-त्रयोविंशति-पञ्चविंशति-पड्विशतिबन्धेषु प्रत्येकं चतुर्विंशचतुर्विंशतिः, अष्टाविंशतिवन्धे षोडश, मनुज-तिर्यग्गतिप्रायोग्यैकोनत्रिंशद्वन्धे (त्रिंशति च)प्रत्येक चतुर्विंशतिश्चतुर्विंशतिः, देवगतिप्रायोग्यतीर्थकरसहितकोनत्रिंशद्वन्धे चतुर्दश, एकत्रिंशद्वन्धे एकम् , एकप्रकृतिवन्धऽष्टाविति । बन्धाभावे उदयस्थान-सत्तास्थानयोः परस्परसंवेधः सामान्यतः संवेधचिन्तायामिव वेदितव्यः ।
सम्प्रति देवानां संवैध उच्यते-तत्र देवानां पञ्चविंशतिवन्धकानां षट्स्वप्युदयस्थानेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च । एवं पविशति-एकोनत्रिंशद्वन्धकानामपि वेदितव्यम् । उद्योतसाहितां तिर्यक्पञ्चेन्द्रियप्रायोग्यां त्रिंशतमपि बध्नतामेवमेव । तीर्थकरसहितां पुनस्त्रिंशतमर्थाद् मनुष्यगतिप्रायोग्यां वध्नतां षटम्बपि उदयस्थानेषु द्वे द्वे सत्तास्थाने, तद्यथा-त्रिनवतिः एकोननवतिश्च । सर्वसङ्ख्यया सत्तास्थानानि पष्टिः॥५१।।
तदेवं गतिमाश्रित्योक्तम् । सम्प्रति इन्द्रियमाश्रित्याभिधीयतेइग विगलिंदिय सगले, पण पंच य अट्ठ बंधठाणाणि ।
पण छक्केकारुदया, पण पण बारस य संताणि ।। ५२ ।। एकेन्द्रिय-विकलेन्द्रिय पञ्चेन्द्रियाणां यथाक्रमं बन्धस्थानानि पञ्च पञ्च अष्टौ । तत्रैकेन्द्रियाणाममूनि पञ्च बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः पविशतिः एकोनत्रिंशत् त्रिंशत् । नत्र देवगनिप्रायोग्यामेकोनत्रिंशतं त्रिंशतं च वर्जयित्वा शेषाणि सर्वाण्यपि सर्वगतिप्रायोग्याणि सप्र दानि वक्तव्यानि । विकलेन्द्रियाणां त्रयाणामपि इमान्येव पञ्च पञ्च बन्धस्थानानि । पञ्चेन्द्रियाणां सर्वाण्यपि बन्धस्थानानि सर्वगतिप्रायोग्याणि सप्रभेदानि द्रष्टव्यानि ।
सम्प्रत्युदयस्थानान्गुच्यन्ते-"पण छक्केकारुदय' ति एकेन्द्रिय विकलेन्द्रिय-पञ्चेन्द्रियाणां यथाक्रमं पञ्च षड् एकादश उदयस्थानानि । तत्र केन्द्रियाणाममूनि पञ्च उदयस्थानानि, तबथा-एकविशतिः चतुर्विंशतिः पञ्चविंशतिः पड्विशतिः सप्तविंशतिश्चः एतानि सप्रभेदानि प्रागिव बेदितव्यानि : विकलेन्द्रियाणां पड़ उदयस्थानानि, तद्यथा-एकविंशतिः पड्विंशतिः अष्टाविंशनिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् ; एतान्यपि यथाऽधस्तादुक्तानि तथैव वक्तव्यानि । पञ्चेन्द्रियाणाममृन्येकादशोदयस्थानानि, तयथा-विंशतिः एकविंशतिः पञ्चविंशतिः पविशतिः साविंशतिः अष्टाविंशतिः एकोनत्रिंशतः त्रिंशद् एकत्रिंशद् नव अष्टो च । एकेन्द्रिय-विकलेन्द्रियसन्कान्युदयस्थानानि वर्जयित्वा शेषाणि सर्वाण्यपि पञ्चेन्द्रियाणां सप्रभेदानि वक्तव्यानि ।
१ मुद्रिक छा० ०दानि बन्धस्थानानि वक्त० ॥
35