________________
२७२
मलयगिरिमहर्षिविनिर्मित विवृत्युपेत
[ गाथा सम्प्रति मनुष्याणां संवेध उच्यते-नत्र मनुष्यस्य त्रयोविंशतिबन्धकम्योदयाः सप्त, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत, शेषाः' केवल्युदया इति न सम्भवन्ति । पञ्चविंशति-सप्तविंशत्युदयो च वेक्रियकारिणो वेदितव्यो । एकैकस्मिंश्चत्वारि चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः पडशीतिः अशीतिश्च । नवरं पश्चविंशत्युदये सप्तविंशत्युदये च द्वे वें सत्तास्थाने. तद्यथा-द्विनवतिः अष्टाशीतिश्चः शेषाणि तु सत्तास्थानानि तीर्थकर-क्षपकोणि-के वलि शेषगतिप्रायोग्याणीति न सम्भवन्तिः सर्वसङ्ख्यया चतुर्विशनिः । एवं पञ्चविंशति-पड्विंशतिबन्धकानामपि वक्तव्यम् । मदुजगतिप्रायोग्यां तियग्गतिप्रायोग्यां चैकोनत्रिंशतं त्रिंशतं च बध्नतामप्येवमेव । अष्टाविंशतिबन्धकानां सप्त उदयाः, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । तत्रैकविंशति-पड्विशत्युदयो अविरतसम्यग्दृष्टेः करणापर्याप्तस्य । पञ्चविंशति-सप्तविंशत्युदयो क्रियस्याहारकसंयतस्य वा । अष्टाविंशति एकोनत्रिशतो अविरतसम्यग्दृष्टीनां वैक्रियकारिणामाहारकसंयतानां च । त्रिंशत् सम्यग्दृष्टीनां मिथ्या दृष्टीनां वा । एकैकस्मिन् द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च । आहारकसंयतम्य द्विनवतिरेव । त्रिंशदुदये चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिश्च । तत्र कोनन्वतिर्नरकगतिप्रायोग्यामष्टाविंशति बनतो मिथ्याहाटेवसेया । सर्वसङ्ख्यया ऽष्टाविंशतिवन्धे पोडश सत्तास्थानानि । देवगांतप्रायोग्यामेकोनविंशतं तीर्थकरसहिता बनतः सप्त उदयस्थानानि, तानि चाष्टाविंशतिबन्धकानामिव द्रष्टव्यानि । न बरं त्रिंशदुदयः सम्यग्दृष्टीनामेव वक्तव्यः, यत एकोनविंशद्वन्धस्तीर्थकरनामसहितः, तीर्थकरनाम च वन्धमायाति सम्यग्दृष्टीनामिति । सर्वष्यपि चोदयस्थानेषु प्रत्येक द्वे द्वे सत्तास्थाने, तद्यथा-त्रिनवतिः एकोननवतिश्च । आहारकसंयतस्य त्रिनवतिरेव । सर्वसङ्ख्यया चतुर्दश । आहारकसहितांत्रिंशतं बनतो द्वे उदयस्थाने, तद्यथा-एकोनत्रिंशत् त्रिंशत् । तत्र यो नामाऽऽहारकसंयतोऽन्तिमकालेऽप्रमतस्तं प्रति एकोनत्रिंशद्वेदितव्या, अन्यत्रकोनत्रिंशति आहारकबन्धहेतीर्विशिष्टसंयम यासम्भवात् । द्वयोरप्युदयस्थानयोः प्रत्येकमेकैकं सत्तास्थानम्-द्विनवतिः । एकत्रिंशद्वन्धकस्य एकमुदयस्थानम्-त्रिंशत् ; एकं सत्तास्थानम् -त्रिनवतिः । एकविधवन्धकस्यैकमुदयस्थानम् - त्रिंशन : अष्टौ सत्तास्थानानि, तद्यथा-विनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः
१ मुद्रि० पा: संयनोद ॥ २ सं० छा• मुद्रिः °न्ति । याविंशतिबन्धकस्य पञ्च ॥ ३ छा० मुद्रिक लिसम्बन्धनि शेष तिप्रायागा चौत कृत्व न ॥ ४ छा० मुद्रि० दृष्टिवैक्यिाहार कसंयतानाम्। त्रि० । ५ छा० मुद्रि० वरमिह मि०॥ ६ आहारक मोक्षकाले इत्यर्थः ।। ७ छा० सं० मुद्रि० प्रतीत्येको० ॥ ८ अप्रमत्तं विहायेत्यर्थः । । सं० १ त० म० छा० स्याभावा० ॥