________________
५१ ]
चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् ।
1
शीतिः । तीर्थकर मत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धासम्भवाद् एकोननवतिर्न लभ्यते । मनुष्यगतिप्रायोग्य वेकोनत्रिंशतं बध्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि चद्यथाद्विनवतिः एकोननवतिः अष्टाशीतिश्च । तीर्थकरसत्कर्मा हि नरकेषूत्पम्नो यावद् मिध्यादृष्टिस्तावद् एकोनत्रिंशतं बध्नाति, सम्यक्त्वं तु प्रतिपन्नस्त्रिंशतम्, तीर्थकर नामकर्मणोऽपि बन्धात् । तिर्यग्गतिप्रायोग्यामुद्योतसहितां त्रिंशतं बध्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्व े द्व े सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च । एकोननवत्यभावभावना प्रागिव भावनीया | मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशतं बध्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकमेकैकं सत्तास्थानम् - एकोननवतिः । सर्वबन्धस्थान उदयस्थांनापेक्षया सत्तास्था' नानि चत्वारिंशत् ।
२७१
1
सम्प्रति तिरश्चां संवेध उच्यते - त्रयोविंशतिबन्धकस्य तिरश्च एकविंशत्यादीनि नव उदयस्थानानि तानि चानन्तरमेवोक्तानि । तत्राहेषु चतुर्षु एकविंशति चतुर्विंशति-पञ्चविंशतिषड्विंशतिरूपेषु प्रत्येकं पञ्च पश्च सत्तास्थानानि तद्यथा - द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिः । इहाष्टसप्ततिस्तेजो-वायून् तद्भवादुवृत्तान् वाऽधिकृत्य वेदितव्या ! शेषेषु तु सप्तविंशत्यादिषु पञ्चसूयस्थानेषु अष्टसप्ततिवर्णानि चत्वारि चत्वारि सत्तास्थानानि । सप्तविंशत्याद्युदयेष्ठ हि नियम तो मनुष्यगतिद्विकसम्भवादष्टसप्ततिर्न लभ्यते । एवं पञ्चविंशति-पविशति-एकोनत्रिंशत्-त्रिंशद्बन्धकानामपि वक्तव्यम् । नवर मेकोनत्रिंशतं मनुष्यगतिप्रायोग्यां बध्नतः सर्वेष्वप्युदयस्थानेष्वष्टसप्ततिवर्णानि चत्वारि चत्वारि सत्तास्थानानि । अष्टाविंशतिबन्धकस्य अष्टावुदयस्थानानि, तद्यथा - एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्रैकविंशति षड्विशति अष्टाविंशति - एकोनत्रिंशत् - त्रिंशद्रूपाः पञ्च उदयाः झायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा द्वाविंशतिसत्कर्मणां पूर्वबद्धायुषामवगन्तव्याः । एकैकस्मिश्च द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च । पञ्चविंशति - सप्तविंशत्युदयौ वैक्रियतिरश्चां वेदितव्यों, तत्रापि ते एव द्वे द्वे सत्तास्थाने । त्रिंशद्- एकत्रिंशदुदयौं सर्वपर्याप्तिपर्याप्तानां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वाऽवसेयौ । एकैकस्मिश्च त्रीणि त्रीणि सत्तास्थानानि, तद्यथा - द्विनवतिः अष्टाशीतिः पडशीतिश्च । पडशीतिर्मिथ्यादृष्टीनामवगन्तव्या । सम्यग्दृष्टीन तु न सम्भवति तेषामवश्यं देवद्विकादिवन्धसम्भवात् । तदेवं सर्वबन्धस्थान - सर्वोदयस्थानापेक्षया सत्तास्थानानां द्वे शते अष्टादशाधिके २१८ तथाहि त्रयोविंशति पञ्चविंशति षड्विशतिएकोनत्रिंशन् त्रिंशद्बन्धकेषु प्रत्येकं चत्वारिंशत् चत्वारिंशत्, अष्टाविंशतिबन्धे चाष्टादश ।
१ सं० २ छा० मुद्रि० "नानि त्रिंशत् ॥ २इत ऊर्ध्वम् - छा० प्रन्थाप्रम् २६३० ।। ३ सं० १ ० म० "वां ॥