SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ २७० , मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः सम्प्रत्युदयस्थानान्यभिधीयन्ते-"पण नव एक्कार छक्वगं उदया" । नायिकाणां पञ्च' 'उदयाः' उदयस्थानानि, तद्यथा- एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् । एतानि सप्रभेदानि प्रागिय वक्तव्यानि । तिरश्चां नव उदयस्थानानि, तद्यथा--एकविंशतिः चतुर्विशतिः पञ्चविंशतिः पड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । एतानि एकेन्द्रिय-विकलेन्द्रियसवैक्रिया.ऽवै क्रियतिर्यपञ्चेन्द्रियानधिकृत्य सप्रभेदानि प्रागिव वक्तव्यानि । ___ मनुष्याणामेकादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः पञ्चविंशतिः षडिवशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् नव अष्टौ च । एतानि च स्वभावस्थमनुष्य-क्रियमनुष्या-ऽऽहारकसंयत-तीर्थ करा-ऽतीर्थकरसयोगि-अयोगिकेवलिनोऽधिकृत्य प्राग्वद् भावनीयानि । देवानां षड् उदयम्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः समविंशतिः अष्टाविंशतिः एकोनत्रिंशद् त्रिंशत् । एतान्यपि प्रागेव सप्रपञ्चमुक्तानि, न भूय उच्यन्ते ।। सम्प्रति सत्तास्थानान्यभिधीयन्ते--"मंता ति पंच एक्कारस चउक्कं" । नैरयिकाणां मत्तास्थानानि त्रीणि, तद्यथा-द्विनवतिः एकोननवतिः अष्टाशीतिश्च । एकोननवतिबद्धतीर्थकरनाम्नो मिथ्यात्वं गतस्य नरकेषत्पद्यमानस्यावसेया । त्रिनवतिम्तु न सम्भवनि, तीर्थकरा ऽऽहारकसत्कर्मणो नरकेषत्पादाभावात् । तिरश्चां पश्च सत्तास्थानानि, तद्यथा--द्विनवनिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च । तीर्थकरसम्बन्धीनि क्षपकसम्बन्धीनि च सत्तास्थानानि न सम्भवन्ति, तीर्थकरनाम्नः क्षपकण्याश्च तिर्यश्वभावात् । ___ मनुष्याणामेकादश सत्तास्थानानि, तद्यथा- विनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः पडशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः नव अष्टौ च । अष्टसप्ततिम्तु न सम्भवति. मनुष्याणामवश्यं मनुष्यद्विकसम्भवात् । देवानां चत्वारि सत्तास्थानानि तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः । शेषाणि तु न सम्भवन्ति, शेपाणि हि कानिचिद् एकेन्द्रियसम्बन्धीनि कानिचित् क्षपकसम्बन्धीनि, ततः कथं तानि देवानां भवितुमर्हन्ति । सम्प्रति संवेध उच्यते--नैरयिकस्य तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं वध्नतः पञ्च उदय स्थानानि, तानि चानन्तरमेवोक्तानि । तेषु प्रत्येकं द्वे वें सत्तास्थाने, तद्यथा--द्विनवतिः अष्टा ! सं० १ त० म००७व उदयस्थाना० ॥ २ सं० १ त० म० ०करसयो० ।।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy