________________
५०-५१ ]
चन्द्र महत्तर कृतं सप्ततिकाप्रकरणम् ।
२६६
सम्प्रति संवेध उच्यते-तत्राष्टोदये त्रीणि सत्तास्थानानि, तद्यथा - एकोनाशीतिः पश्चसप्ततिः अष्टौ च । तत्राद्ये द्वे यावद् द्विचरमसमयस्तावत् प्राप्येते, चरमसमयेऽष्टौं । नवोदये त्रीणि सत्तास्थानानि, तद्यथा - अशीतिः षट्सप्ततिः नव च । तत्राद्ये द्वे यावद् द्विचरमसमयः, चरमसमये नव ॥ ५० ॥
तदेवं गुणस्थानकेषु बन्ध-उदय सत्तास्थानान्युक्तानि । साम्प्रतं गत्यादिषु मार्गणास्थानेषु : तानि चिचिन्तयिषुः प्रथमतो गतिषु तावत् चिन्तयन्नाह
दो pass arai, पण नव एक्कार लक्कगं उदया ।
'आइसु संता, ति पच एक्कारस चउक्कं ।। ५१ ।।
नैरकितिर्यग - मनुष्य - देवानां यथाक्रमं द्वे षड् अष्टौ चत्वारि बन्धस्थानानि । तत्र नैरथि - काणामि द्वे, तद्यथा - एकोनत्रिंशत् त्रिंशत् । तत्रैकोनत्रिंशद् मनुष्यगतिप्रायोग्या तिर्यग्गतिप्रायोग्या च वेदितव्या । त्रिंशत् तिर्यक्पञ्चेन्द्रियप्रायोग्या उद्योतसहिता, मनुष्यगतिप्रायोग्या तु तीर्थकरसहिता । भङ्गाश्च' प्रागुक्ताः सर्वेऽपि द्रष्टव्याः ।
तिरथा षड् बन्धस्थानानि तद्यथा - त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । एतानि प्रागिव सप्रभेदानि वक्तव्यानि, केवलमेकोनत्रिंशत् त्रिंशच्च या तीर्थकरा-ऽऽहारकसहिता सा न वक्तव्या, तिरवां तीर्थकरा-SSहारकबन्धासम्भवात् ।
मनुष्याणामष्टौ बन्धस्थानानि, तद्यथा - त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् एका च । एतान्यपि प्रागिव सप्रभेदानि वक्तव्यानि मनुष्याणां चतुर्गतिकप्रायोग्यबन्धसम्भवात् ।
देवस्य चत्वारि बन्धस्थानानि तद्यथा- पश्चविंशतिः षड्विंशतिः एकोनत्रिंशत् त्रिंशत् । अत्र पञ्चविंशतिः पविशतिश्व पर्याप्त बादर- प्रत्येकस हितमेकेन्द्रियप्रायोग्यं बघ्नतो वेदितव्या । अत्र स्थिरा - स्थिर - शुभा -ऽशुभ-यशः कीर्ति-अयशः कीर्तिभिरष्टौ भङ्गाः । षड्विंशतिः आतपउद्योतान्यतरसहिता भवति, ततोऽत्र भङ्गाः षोडश । एकोनत्रिंशद् मनुष्यगतिप्रायोग्या तिर्यक्पञ्चेन्द्रियप्रायोग्या च सप्रभेदाऽवसेया । त्रिंशत् पुनस्तिर्यक्पञ्चेन्द्रियप्रायोग्या उद्योत सहिता अष्टाधिकषट्चत्वारिंशच्छतसङ्ख्यभेदोपेता ४६०८ प्रागिव वक्तव्या । या तु मनुष्यगतिप्रायोग्या तीर्थकर नामसहिता तत्र स्थिरा स्थिर - शुभाशुभ - यशः कीर्ति अयशः कीर्तिभिरष्टौ भङ्गाः ।
१ सं० सं० १ सं० २ त० छा० ०आई संता, ॥ २ छा० मुद्रि० ०श्च सर्वत्रापि प्रागु० ।। ३ सं० १ त०म० शतिः पर्या० ॥ ४ मुद्रि० ०व संप्रभेदा वक्त• ॥