________________
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथाः
-.
I
सम्प्रत्यनिवृत्तिवादरस्य बन्धादिस्थानान्युच्यन्ते - "एगेग मट्ठ" ति अनिवृत्तिबादरस्यैकं बन्ध"स्थानम् - यशः कीर्तिः । एकमुदयस्थानम् - त्रिंशत् । अष्टौ सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । तत्राद्यानि चत्वा शमण्यां क्षपकश्रेण्यां वा यावद् नामत्रयोदशकं न क्षीयते । त्रयोदशसु च नामसु यथाक्रमं त्रिनवत्यादेः क्षीणेषूपरितनानि चत्वारि सत्तास्थानानि भवन्ति । बन्ध-उदय-स्थानभेदाभावादत्र संवेधो न सम्भवतीति नाभिधीयते ।
२६८
सूक्ष्मसम्परायस्य बन्धादीन्युच्यन्ते - "एगेगमट्ठ" त्ति सूक्ष्मसम्परायस्यैकं बन्धस्थानम्यशःकीर्तिः । एक्रमुदयस्थानम् - त्रिंशत् । अष्टौ सत्तास्थानानि तानि चानिवृत्तिवादरस्येव वेदितव्यानि । तत्राद्यानि चत्वायुपशमश्रेण्यामेव उपरितनानि तु षकश्रेण्याम् ।
“छ उमत्थ केवलिजिणाणं" इत्यादि । छद्मस्थजिना:---उपशान्तमोहाः क्षीणमोहाश्च, केवलजिना:---सयोगिकेवलिनोऽयोगिकेवलिनश्च तेषां यथाक्रममुदय-सत्तास्थानानि - "एक्क चऊ " इत्यादीनि । तत्रोपशान्तमोहस्यैकमुदयस्थानम्---त्रिंशत् ।
चत्वारि सत्तास्थानानि तद्यथा--- -- त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च । क्षीणकषायस्यैकमुदयस्थानम् - त्रिंशत् । अत्र भङ्गाश्चतुर्विंशतिरेव, वज्रर्षभनाराचसंहननयुक्तस्यैव क्षपकथं ण्यारम्भसम्भवात् । तत्रापि तीर्थकर सत्कर्मणः क्षीणमोहस्य सर्व संस्थानादि प्रशस्तमित्येक एवं भङ्गः ।
I
चत्वारि सत्तास्थानानि, तद्यथा--- अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । एकोनाशीति पञ्चमसती अतीर्थकर सत्कर्मणो वेदितव्ये । अशीति षट्सप्तती तु तीर्थकरसत्कर्मणः । सयोगिकेवलिनोऽष्टावुदयस्थानानि तद्यथा- विंशतिः एकविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । एतानि सामान्यतो नाम्न उदयस्थानचिन्तायां सप्रपञ्चं विवृतानीति न भूयो वित्रियन्ते ।
चत्वारि सत्तास्थानानि, तद्यथा---अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः । सम्प्रति संवेध उच्यते--- स च जीवस्थानेषु पर्याप्तसंज्ञिद्वारे यथा कृतस्तथाऽत्रापि भावयितव्यः ।
अयोगिवलिनो द्वे उदयस्था 'ने, तद्यथा - नव अष्टौ च । तत्राष्टोदयोऽतीर्थकरायोगिकेवलिनः, नवोदय स्तीर्थ करायोगिकेवलिनः ।
षट् सत्तास्थानानि, तद्यथा - अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः नव अष्टौ च ।
१ स १ त०म० ने वेदितव्ये, तद्य० ॥। २००२ मुद्रि० च । तत्राष्टो० ॥