________________
४९-५०]
चन्द्रर्षिमहत्तकृतं सप्ततिकाप्रकरणम्। द्वे उदयस्थाने, तद्यथा-एकोनत्रिंशत् त्रिंशत् । तत्रैकोनत्रिंशद् यो नाम पूर्व प्रमत्तसंयतः सन् आहारकं वैक्रियं वा निर्वयं पश्चादप्रमत्तभावं गच्छति तस्य प्राप्यते, अत्र द्वौ भङ्गौ-- एको बैंक्रियस्य, अपर आहारकस्य । एवं त्रिंशदुदयेऽपि द्वौ भङ्गौ । स्वभावस्थस्याप्यप्रमत्तसंयतस्य त्रिंशदुदयों भवति, तत्र भङ्गाश्चतुश्चत्वारिंशं शतम् १४४ । सर्वसङ्ख्ययाऽष्टचत्वारिंश शतम् १४८ ।
सत्तास्थानानि चत्वारि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च ।
सम्प्रति संवेध उच्यते-अष्टाविंशतिबन्धकस्य द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानम्अष्टाशीतिः । एकोनत्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानम्-एकोननवतिः । त्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानम्-द्विनवतिः । एकत्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानम्-त्रिनवतिः । यस्य हि तीर्थकरमाहारकं वा सत् स नियमात् तद् बध्नाति, तेनैकैकस्मिन् बन्धे एकैकमेव सत्तास्थानम् । सर्वसङ्ख्ययाऽष्टौ ।
सम्प्रत्यपूर्वकरणस्य बन्धादीन्युच्यन्ते-"पणगेग चउ' त्ति अपूर्वकरणस्य पञ्च बन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् एका च । तत्राद्यानि चत्वारि अप्रमत्तसंयतस्येव द्रष्टव्यानि । एका तु यशःकीर्तिः, सा च देवगतिप्रायोग्यवन्धव्यवच्छेदे सति वेदितव्या ।
एकमुदयस्थानम्-त्रिंशत् । अत्र वर्षभनाराचसंहनन-षटसंस्थान-सुस्वर-दुःस्वर-प्रसस्ताऽप्रशस्तविहायोगतिभिर्भङ्गाश्चतुर्विंशतिः २४ ।
अन्ये त्वाचार्या वते-आद्यसंहननत्रयान्य'तमसंहननयुक्ता अप्युपशमश्रेणी प्रतिपद्यन्ते तन्मतेन भङ्गा द्विसप्ततिः । एवमनिवृत्तिबादर-सूक्ष्मसम्पराय-उपशान्तमोहेष्वपि द्रष्टव्यम् ।
चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च ।
सम्प्रति संवेध उच्यते-अष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्-एकत्रिंशद्वन्धकानां त्रिंशदुदये सत्तास्थानानि यथाक्रममष्टाशीतिः एकोननवतिः द्विनवतिः विनवतिश्च । एकविधवन्धकस्य त्रिंशदुदये चत्वार्यपि सत्तास्थानानि, कथम् ? इति चेद् उच्यते-इहाष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्एकत्रिंशद्वन्धकाः प्रत्येकं देवगतिप्रायोग्यत्रन्ययवच्छेदे सत्येकविधयन्धका भवन्ति, अष्टाविंशत्यादिबन्धकानां च यथाक्रममष्टाशीत्यादीनि सत्तास्थानानि, तत एकविधबन्धे चत्वार्यपि प्राप्यन्ते ॥४९॥
१८० १ त० म० ०तरसं० ॥२' छा० ०पि सत्तास्थानानि प्राप्य० ॥