________________
मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[गाथा द्वे द्वे सत्तास्थाने, तद्यथा--द्विनवतिरष्टाशीतिश्च । एवं तिरश्चोऽपि, नवरं तस्यकत्रिंशदुदयोऽपि वक्तव्यः, तत्रापि चैते एव द्वे सत्तास्थाने । एकोनत्रिंशद्वन्धो मनुष्यस्येव देशविरतस्य, तस्योदयस्थानान्यनन्तरोक्तान्येव पञ्च, तेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा---त्रिनवतिरेकोननवतिश्च । तदेवं देशविरतस्य पञ्चविंशत्यादिषु त्रिंशत्पर्यन्तेषु चत्वारि चत्वारि सत्तास्थानानि । एकत्रिंशदुदये द्वे सत्तास्थाने । सर्वसङ्ख्यया द्वाविंशतिः २२ ।
___ सम्प्रति प्रमत्तसंयतम्य बन्धादिस्थानान्युच्यन्ते---"दुग पण चउ' त्ति प्रमत्तसंयतस्य द्वं बन्धस्थाने, तद्यथा--अष्टाविंशतिरेकोनत्रिंशत् । एते च देशविरतस्येव भावनीये ।
पश्चोदयस्थानानि, तद्यथा--पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् , एतानि सर्वाण्यप्याहारकसंयतस्य वे क्रियसंयतम्य वा वेदितव्यानि । त्रिंशत् स्वभावस्थसंयत. स्यापि । तत्र वैक्रियसंयतानामाहारकसंयतानां च पृथक पृथक् पश्चविंशति-सप्तविंशत्युदययोः प्रत्येकमेकैको भङ्गः ४, अष्टाविंशतावेकोनविंशति च द्वो द्वौ ८, त्रिंशति चैकैकः २ । सर्वसङ्खथया चतुर्दश १४ । त्रिंशदुदयः स्वभावस्थस्यापि प्राप्यते । तत्र चतुश्चत्वारिंशं शतं भङ्गानाम् १४४, तच्च देशविरतस्येव भावनीयम् । सर्वसङ्ख्ययाऽष्टपञ्चाशदधिकं शतम् १५८ ।।
चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टार्श तिश्च ।
सम्प्रति संवेध उच्यते-अष्टाविंशतिवन्धकस्य पश्चस्वप्युदयम्थानेषु प्रत्येक द्वे द्वे सत्तास्थाने, तद्यथा- द्विनवतिरष्टाशीतिश्च । तत्राहारकसंयतस्य द्विनवतिरेव, आहारकमकर्मा ह्याहारकशरीरमुत्पाद 'यतीति तस्य द्विनवतिरेव । वैक्रियसंयतस्य पुनढे 'अपि । तीर्थकरनामसत्कर्मा चाष्टाविंशतिं न बध्नातीति विनवतिरेकोननवतिश्च न प्राप्यते । एकोनत्रिंशद्वन्धकस्य पश्चस्वप्युदयस्थानेषु प्रत्येक द्वे द्वे सत्तास्थान, तद्यथा-त्रिनवतिरेकोननवतिश्च । तत्राहारकसंयतस्य त्रिनवतिरेव, तस्यकोनत्रिंशद्वन्धकस्य नियमतस्तीर्थकरा-ऽऽहारकसद्भावात् । वैक्रियसंयतम्य पुनद्रे अपि । तदेवं प्रमत्तसंयतस्य सर्वेष्वप्युदयस्थानेषु प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि प्राप्यन्त इति । सर्वसङ्ख्यया विंशतिः २० ।
___ इदानीमप्रमत्तसंयतस्य बन्धादीन्युच्यन्ते-"चउ दुग चउ" ति अप्रमत्तसंयतस्य चत्वारि बन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनविंशत् त्रिंशद् एकत्रिंशत् । तत्राद्ये द्वे प्रमत्तसंय तस्येव भावनीये । सेवाष्टाविंशतिराहारकद्विकसहिता त्रिंशत् । आहारकद्विक-तीर्थकरसहिता त्वेकत्रिंशत् । एतेषु चतुर्वपि बन्धस्थानेषु भङ्ग एकेक एव वेदितव्यः, अस्थिरा-ऽशुभा-ऽयश:कीर्तीनामप्रमत्तसंयते बन्धाभावात् ।
१ सं० मुद्रि० ०यति ततस्तस्य ।। २ सं० अपि सत्तास्थाने । ती० ॥