SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ४९-५० ] चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् । २६५ षष्ठं तु त्रिंशत्, सा चोद्योतवेद' कानां देवानामवगन्तव्या । एकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने, तद्यथा-- द्विनवतिरष्टाशीतिश्च । मनुष्यगतिप्रायोग्यां त्रिंशतमविरतसम्यग्दृष्टयो देवा नैरविकाश्च बध्नन्ति । तत्र देवानामुदयस्थानानि पर तान्येव । तेषु उदयस्थानेषु प्रत्येकं द्वे द्वे सत्तास्थाने- त्रिनवतिरेकोननवतिश्च । नैरयिकाणामुदयस्थानानि पञ्च तेषु प्रत्येकं सत्तास्थानमेक्रोननवतिरेव, तीर्थकरा-ऽऽहारक सत्कर्मणो नरकेषूत्पादाभावात् । तदेवं सामान्येनैकविंशत्यादिषु त्रिंशत्पर्यन्तेषूदयस्थानेषु सत्तास्थानानि प्रत्येकं चत्वारि चत्वारि, तद्यथा - त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च । एकत्रिंशदुदये द्वे - द्विनवतिरष्टाशीतिश्च । सर्वसङ्ख्यया त्रिंशत् । 1 सम्प्रति देशविरतस्य बन्धादिस्थानान्युच्यन्ते - " दुग छ च्च उ" ति देशविरतस्य द्वे बन्धस्थाने तद्यथा - अष्टाविंशतिरेकोनत्रिंशत् । तत्राष्टाविंशतिर्मनुष्यस्य तिर्यक्पञ्चेन्द्रियस्य वा देशविरतस्य देवगतिप्रायोग्या, तत्राष्टौ भङ्गाः । सैव तीर्थकरसहिता एकोनत्रिंशत् सा च मनुष्यस्यैव, तिरवस्तीर्थकर सत्कर्म - बन्धाभावात्, अत्राप्यष्टौ भङ्गाः । 9 - षड् उदयस्थानानि, तद्यथा - पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्राद्यानि चत्वारि वैक्रियतियङ्- मनुष्याणाम् । अत्र मनुष्याणामेकैक एव भङ्गः, तिरश्चामाद्ययोरंकैकोऽन्तिमयोस्तु द्वौ द्वौ, सर्वपदानां प्रशस्तत्वात् । त्रिंशत् स्वभाव स्थानां तिर्यङ् - मनुष्याणाम्, प्रत्येकमत्र भङ्गकानां चतुश्चत्वारिंशं शतम् १४४, तच्च षड्भिः संस्थानैः षड्भिः संहननैः : सुस्वरः- दुःस्वराभ्यां प्रशस्ता प्रशस्तविहायोगतिभ्यां च जायते । दुर्भगा ऽनादेयाऽयशःकीर्तनामुदयो गुणप्रत्ययादेव न भवतीति तदाश्रिता विकल्पा न प्राप्यन्ते' । वैक्रियतिरश्चां एको भङ्गः -- एकत्रिंशत् । तिरश्चामत्रापि त एव भङ्गाः " १४४ | सर्वसङ्ख्यया चत्वारि शतानि त्रिचत्वारिंशदधिकानि ४४३ । ७ चत्वारि सत्तास्थानानि तद्यथा - त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्व । तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकरा - ऽऽहारकं बद्ध्वा परिणामहासेन देशविरतो जातः तस्य त्रिनवतिः । शेषाणां भावनाऽविरतसम्यग्दृष्टेखि कर्तव्या । सम्प्रति संवेध उच्यते - तत्र मनुष्यस्य देशविरतस्याष्टाविंशतिबन्धकस्य पञ्च उदयस्थानानि तद्यथा - पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । एतेषु च प्रत्येकं १ सं स ० १ स २ त कानामव० ॥ २ सं० १ सं० २० म० छा० मिन् द्व े द्वे ॥ ३ सं० सं० १ सं० २० म० व्षु प्रत्ये० ॥ ४ सत्कर्म च बन्धश्च सत्कर्म-बन्धो, तीर्थकरस्य सत्कर्मबन्धौ तीर्थंकरसत्कम-बन्धौ तयोरभावस्तीर्थ कर सत्कर्म बन्धाभावस्तस्मादिति विग्रहः ॥ ५ छा० मुद्रि० ०स्थानामपि तिये ॥। ६ सं० [सं० २०न्ते । वैक्रियतिर्यग्मनुष्याणां प्रत्येकमेकैको भ० छा० ०न्ते । तिर्यग्मनुष्याणां प्रत्येकमेकैको भ० || ७ सं० छा० मुद्रि० ङ्गाः १४४ । चत्वारि सत्ता० ॥ 34
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy