________________
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथा
प्यधिकृत्याष्टौ, नैरयिकानधिकृत्यैकः । पञ्चविंशति- सप्तविंशत्युदयौ देव-नैरयिकान् वैक्रियतिर्यङ्मनुष्यांश्चाधिकृत्यावसेयौ । तत्र नैरयिकः क्षायिकसम्यग्दृष्टिर्वेदकसम्यग्दृष्टि, देवस्त्रिविधसम्यदृष्टिरपि । उक्तं च चूर्णौ
२६४
'पणवीस सत्तावीसोदया देव-नेरइए विउब्वियतिरिय- मणुए य पच्च, arsगो खड्ग-वेगसम्मदिट्ठी, देवो तिविहसम्मद्दिट्ठीवि ।
इति ।
भङ्गात्र सर्वेऽप्यात्मीया आत्मीया द्रष्टव्याः । षड्विंशत्युदयः तिर्यङ्- मनुष्याणां क्षायिक-वेदकसम्यग्दृष्टीनाम् । औपशमिकसम्यग्दृष्टिश्च तिर्यङ्- मनुष्येषु मध्ये नोत्पद्यत इति त्रिविधसम्यग्दृष्टीनामिति नोक्तम् | वेदकसम्यग्दृष्टिता च तिरवो द्वाविंशतिसत्कर्मणो वेदितव्या । अष्टाविंशतिएकोनत्रिंशदुदयौ नैरयिक-तिर्यङ्-मनुष्य- देवानाम् । त्रिंशदुदयस्तिर्यक्पञ्चेन्द्रिय मनुष्य देवानाम् । एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियाणाम् । भङ्गा आत्मीया आत्मीयाः सर्वेऽपि द्रष्टव्याः ।
चत्वारि सत्तास्थानानि, तद्यथा - त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च । तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकरा - ऽऽहारकसहितामेकत्रिंशतं बद्ध्वा पश्चादविरतसम्यग्दृष्टिदेवो जातस्तमधिकृत्य त्रिनवतिः । यस्त्वाहारकं बद्ध्वा परिणामपरावर्तनेन मिथ्यात्वमुपगम्य चतसृणां गतीनामन्यतमस्यां गतायुत्पन्नस्तस्य तत्र तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः । देव-मनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि द्विनवतिः प्राप्यते । एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्यग्दृष्टीनाम्, ते हि त्रयोऽपि तीर्थकरनाम समर्जयन्ति । तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यत इति तिर्यङ् न गृहीतः । अष्टाशीतिश्चतुर्गतिकानामविरतसम्यग्दृष्टीनाम् ।
,
सम्प्रति संवेध उच्यते - तत्राविरतसम्यग्दृष्टेरष्टाविंशतिबन्धकस्य अष्टावप्युदयस्थानानि, तानि तिर्यङ्-मनुष्यानधिकृत्य । तत्रापि पञ्चविंशति- सप्तविंशत्युदयौ वैक्रियतिर्यङ्-मनुष्यानधिकृत्य । एकैकस्मिन्नुदयस्थाने, द्वे द्वे सत्तास्थाने, तद्यथा-- द्विनवतिरष्टाशीतिश्च । एकोनत्रिंशद्, । द्विधा -- देवगतिप्रायोग्या मनुष्यगतिप्रायोग्या च । तत्र देवगतिप्रायोग्या तीर्थकरनामसहिता, तांच मनुष्या एव बनन्ति । तेपां चोदयस्थानानि सप्त, तद्यथा - एकविंशतिः पञ्चविंशतिः पविशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । मनुष्याणामेकत्रिंशन्न सम्भवति । एकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने, तद्यथा - - त्रिनवतिः एकोननवतिश्च । मनुष्यगतिप्रायोग्यां चैकोनत्रिंशतं बध्नन्ति देव - नैरयिकाः । तत्र नैरयिकाणामुदयस्थानानि पञ्च तद्यथाएकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् । देवानां पञ्च ताव देतान्येव,
१ पञ्चविंशति-सप्तविंशत्युदयौ देवनैरयिकान् वैकियतिर्यङ- मनुष्यांश्च प्रतीत्य नैरयिकः क्षायिकवेदकसम्यग्दृष्टिः, देवस्त्रिविधसम्यग्दृष्टिरपि ॥ २ म० मुद्रि० ०त्वमनुग० ॥