SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ २६३ चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् । त्रीण्युदयस्थानानि तद्यथा - एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्रैकोनत्रिंशति देवानधिकृत्याष्टौ भङ्गाः, नैरयिकानधिकृत्यैकः, सर्वसङ्ख्यया नव । त्रिंशति तिर्यक्पञ्चेन्द्रियानधिकृत्य ' सर्वपर्याप्तिपर्याप्तयोग्यानि द्विपञ्चाशदधिकान्येकादश शतानि ११५२, मनुष्यानधिकृत्य एकादश शतानि द्विपञ्चाशदधिकानि ११५२, सर्वस्यया त्रयोविंशतिशतानि चतुरधिकानि २३०४ | एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियानधिकृत्य, तत्र भङ्गा द्विपञ्चाशदधिकान्येकादश शतानि ११५२ । सर्वोदयस्थानभङ्गसङ्ख्या चतुस्त्रिंशच्छतानि पञ्चषष्ट्यधिकानि ३४६५ । ४६-५० ] द्वे सत्तास्थाने, तद्यथा - - द्विनवतिः अष्टाशीतिश्च । सम्प्रति संवेध उच्यते - सम्यग्मिथ्यादृष्टेरष्टाविंशतिबन्धकस्य द्वे उदयस्थाने, तद्यथात्रिंशद् एकत्रिंशत् । एकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने, तद्यथा - द्विनवतिरष्टाशीतिश्च । एकोनत्रिंशद्वन्धकस्य एकमुदयस्थानम् - एकोनत्रिंशत् । अत्रापि ते एव द्वे सत्तास्थाने । तदेवमेकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थान इति सर्वसङ्ख्यया पट् । सम्प्रत्यविरतसम्यग्दृष्टेर्बन्ध - उदय-सत्तास्थानान्यभिधीयन्ते - "तिगड चउ" त्ति त्रीणि बन्धस्थानानि, तद्यथा - अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । तत्र तिर्यङ्-मनुष्याणामविरतसम्यग्दृटीनां देवगतिप्रायोग्यं बघ्नतामष्टाविंशतिः, अत्राष्टौ भङ्गाः । अविरतसम्यग्दृष्टयो हि तिर्यङ्मनुष्यान शेषगतिप्रायोग्यं बध्नन्ति तेन नरकगतिप्रायोग्या अष्टाविंशतिर्न लभ्यते । मनुष्याणां देवगतिप्रायोग्यं तीर्थकरसहितं बध्नतामेकोनत्रिंशत्, अत्राप्यष्टौ भङ्गाः । देव-नैरयिकाणां मनुयगतिप्रायोग्यं बध्नतामेकोनत्रिंशत, अत्रापि त एवाष्टौ भङ्गाः । तेषामेव मनुष्यगतिप्रायोग्यं. तीर्थंकरसहित त्रिंशत्, अत्रापि त एवाष्टौ भङ्गाः । अष्टादयस्थानानि तद्यथा - एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्रैकविंशत्युदयो नैरयिक- तिर्यक्पञ्चेन्द्रिय-मनुष्यदेवानधिकृत्य वेदितव्यः क्षायिकसम्यग्दृष्टेः, पूर्वबद्धायुष्कम्य एतेषु सर्वेष्वपि तस्य सम्भवात् । अविरतसम्यग्दृष्टिचा पर्याप्त केषु मध्ये नोत्पद्यते, ततोऽपर्याप्तकोदयवर्जाः शेषभङ्गाः सर्वेऽपि वेदितव्याः । ते च पञ्चविंशतिः- तत्र तिर्यक्पञ्चेन्द्रियानधिकृत्याष्टौ मनुष्यानधिकृत्याष्टौ देवान I १ सं० १ ० ०त्य भङ्गा द्विपञ्चा० । म० मुद्रि० व्त्य अष्टात्रिंशत्यधिकानि सप्तदश शतानि १७२८, मनुष्यानधिकृत्य एकादश शतानि द्विपञ्चाशदधिकानि ११५२, सर्वसंख्यया अष्टाविंशतिशतानि अशीत्यधिकानि २८८० । एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियानधिकृत्य तत्र भङ्गा द्विपञ्चाशदधिकान्येकादश शतानि ११५२ । सर्वोदयस्थानभङ्गसंख्या चत्वारिंशच्छतानि एकचत्वारिंशदधिकानि ४०४१ । द्वे सत्तास्थाने ॥ २ सं० १ ० ०त्य भङ्गा एका० || ३ म० छा० ०षा भ० ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy