________________
२६२
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथा:
सङ्ख्यया त्रयोविंशतिशतानि द्वादशाधिकानि २३१२ । एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियाणां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानाम् । अत्र भङ्गा एकादश शतानि द्विपञ्चाशदधिकानि ११५२ । उक्तरूपाया एवं भङ्गसङ्ख्याया निरूपणार्थमियमन्तरर्भाष्यगाथा'बत्तीस दोन्नि अड्ड य, बासीयसया य पंच नव उदया । बारहगा तेवीसा, बावन्नेकारस सया य ॥ १० ॥ सुगमा ||
सर्वभङ्गसङ्ख्या सप्तनवत्यधिकानि चत्वारिंशच्छतानि ४०६७ ।
सासादनस्य द्वे सत्तास्थाने, तद्यथा - द्विनवतिरष्टाशीतिश्च । तत्र द्विनवतिर्य आहारकचतुष्टयं बद्ध्वा उपशम श्रेणीतः प्रतिपतनं सासादनभावमुपगच्छति तस्य लभ्यते, न शेपस्य । अष्टाशीतिश्चतुर्गतिकानामपि सासादनानाम् ।
3
सम्प्रति संवेध उच्यते - तत्राष्टाविंशर्ति बघ्नतः सासादनम्य द्वे उदयस्थाने, तद्यथात्रिंशद् एकत्रिंशत् । अष्टाविंशतिर्हि सासादनस्य बन्धयोग्या भवति देवगतिविषया, न च करणापर्याप्तः सासादनो देवगतिप्रायोग्यं बध्नाति ततः शेषा उदया न सम्भवन्ति । तत्र मनुष्यमधिकृत्य त्रिंशदुदये द्वे अपि सत्तास्थाने । तिर्यक्पञ्चेन्द्रियसासादनानधिकृत्याष्टाशीतिरेव, यतो द्विनवतिरुपशमश्रेणीतः प्रतिपततो लभ्यते, न च तिरश्वामुपशमश्रेणिसम्भवः | एकत्रिंशदुदयेऽप्यष्टाशीतिरेव, यत एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियाणाम् । न च तिरवां द्विनवतिः सम्भवति, प्रागुक्तयुक्तेः । एकोनत्रिंशतं तिर्यक्पञ्चेन्द्रिय मनुष्यप्रायोग्यां बध्नतः सासादनस्य सप्ताप्युदयस्थानानि । तत्र एकेन्द्रिय-विकलेन्द्रिय- तिर्यक्पञ्चेन्द्रिय-मनुष्य-देव-नैरयिकाणां सासादनानां स्वीयस्वीयोदयस्थानेषु वर्तमानानामेकमेव सत्तास्थानम् - अष्टाशीतिः । नवरं मनुष्यस्य त्रिंशदुदये वर्तमानस्योपशमश्र णीतः प्रतिपततः सासादनस्य द्विनवतिः । एवं त्रिंशद्बन्धकस्यापि वक्तव्यम् सर्वाण्यप्युदयस्थानान्यधिकृत्य सामान्येन सर्वसङ्ख्यया सासादनस्याष्टौ सत्तास्थानानि ।
सम्प्रति सम्यग्मिथ्यादृष्टेर्बन्ध-उदय-सत्तास्थानान्यभिधीयन्ते - "दुग तिग दुगं" ति द्वे बन्धस्थाने, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् । तत्र तिर्यग्- मनुष्याणां सम्यग्मिथ्यादृष्टीनां देवगतिप्रायोग्यमेव बन्धमायाति, ततस्तेषामष्टाविंशतिः, तत्र भङ्गा अष्टौ । एकोनत्रिंशद् मनुष्यगतिप्रायोग्यं बध्नतां देव-नैरयिकाणाम्, अत्राप्यष्टौ भङ्गाः । ते चोभयत्रापि स्थिरा ऽस्थिरशुभाऽशुभ-यशःकीर्ति-अयशः कीर्तिपदैवसेयाः । शेषास्तु परावर्तमानप्रकृतयः शुभा एव सम्यग्मिथ्यादृष्टीनां बन्धमायान्ति, ततः शेषभङ्गा न प्राप्यन्ते ।
१ अत्र २४६ पृष्ठगता ७ सख्याका टिप्पणी द्रष्टव्या ।। २ सं० १ ० ०वतीति दे || ३ छा० मुद्रि० अत्र मनुष्यानधि० ॥