________________
४६-५०]
चन्द्रमिद्दत्तकृतं सप्ततिकाप्रकरणम् ।
सुगमा ||
'अट्ठ य सय चोवडि, बत्तीस सया य सासणे भेया । अट्ठावीसाई, सवाऽवहिंग छण्णउई ।। ९ । सासादनस्योदयस्थानानि सप्त, तद्यथा - एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः पविशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्रैकविंशत्युदय एकेन्द्रिय विकलेन्द्रिय तिर्यक्पञ्चेन्द्रिय-मनुव्य-देवानधिकृत्य वेदितव्यः । नरकेषु सासादनो नोत्पद्यत इति कृत्वा तद्विषय एकविशत्युदयो नगृह्यते । तत्रैकेन्द्रियाणामेकविंशत्युदय बादरपर्याप्तकेन सह यशः कीर्ति अयशःकीर्तिभ्यां यो
भङ्गौ तावेव सम्भवतः, न शेषाः सूक्ष्मेषु अपर्याप्तकेषु च मध्ये सासादनस्योत्पादाभावात् । अत एव विकलेन्द्रियाणां तिर्यक्पञ्चेन्द्रियाणां मनुष्याणां च प्रत्येकमपर्याप्तकेन सह य एकैको भङ्गः स इह न सम्भवति, किन्तु शेषा एव । ते च विकलेन्द्रियाणां द्वौ द्वौ इति पट् तिर्यपञ्चेन्द्रियाणामष्टौ मनुष्याणामप्यष्टौ देवानामप्यष्टौ सर्वसङ्ख्यया एकविंशत्युदये द्वात्रिंशत् । चतुर्विंशत्युदय एकेन्द्रियेषु मध्ये उत्पन्नमात्रस्य, अत्रापि बादरपर्याप्तकेन सह यशः कीर्ति अयशःकीर्तिभ्यां योद्वी भङ्गौ तावेव सम्भवतः, न शेषाः, सूक्ष्मेषु साधारणेषु तेजो- वायुषु च मध्ये सासादनस्योत्पादासम्भवात् । पञ्चविंशत्युदयो देवेषु मध्ये उत्पन्नमात्रस्य प्राप्यते न शेषस्य, तत्र चाष्ट। भङ्गाः, ते'च स्थिगऽस्थिर - शुभाशुभ-यशः कीर्ति अयशः कीर्तिपदैग्वसेयाः । पविशत्युदयो विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय मनुष्येषु मध्ये उत्पन्नमा' त्रस्यावसेयः, अत्राप्यपर्याप्तकेन सह य एकैको भङ्गः स न सम्भवति, अपर्याप्तकमध्ये सासादनस्योत्पादाभावात् शेषास्तु सम्भवन्ति । ते च विकलेन्द्रियाणां प्रत्येकं द्वो द्वाविति पट्, तियेचपञ्चेन्द्रियाणां द्वे शते अष्टाशीत्यधिके २८८ मनुष्याणामपि द्वे शते अष्टाशीत्यधिके २८, सर्वसङ्ख्या पविशत्युदये पञ्च शतानि द्वयशीत्यधिकानि ५८२ | सप्तविंशति- अष्टाविंशत्युदयौ न सम्भवतः, तौ हि उत्प च्यनन्तरमन्तमुहूर्ते गते सति भवतः, सासादन भावश्वोत्पत्त्यनन्तरमुत्कर्पतः किञ्चिदू नषडावलिकामात्रं कालं भवति, तत एतौ सासादनस्य नि प्राप्येते । एकोनत्रिंशदुदयो देव-नैरयिकाणां स्वस्थानगतानां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानां प्राप्यते । तत्र देवम्यै कोनत्रिंशदुदये भङ्गा अष्टी, नैरयिकस्यैक इति, सर्वसङ्घया जब । त्रिंशदुदयस्तिर्यग्-मनुष्याणां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानां देवानां वा उत्तरवेक्रिये वर्तमानानां सासादनानाम् । तत्र तिरश्चां मनुष्याणां च त्रिंशदुदये प्रत्येकं द्विपञ्चाशदधिकान्येकादश शतानि ११५२, देवस्याष्टौ सर्व
"
२६१
१ अत्र २४६ पृष्ठगता ७ संख्याका टिप्पणी अबलोकनीया ।। २ मुद्रि० चोसट्ठि । छा० चउसहिं । म० चट्टी ॥ ३ छा० मुद्रि० ० स भणि० ॥ ४ सं० १ त० मञ्च सुभग दुर्भगा ऽऽदेयाना-ऽनादेय यशः० ।। ५ सं० २०त्रम्य, अत्राप्य० ॥ ६ सं ०सं० २ ०श्च० ।। ७ सं० स०२ ०लम्, ततः ॥ ८म० मुद्रि०
न सम्भवतः । एको० ॥