________________
मलयगिरिमहर्षि विनिर्मितविवृत्युपेतं
[ गाथा मामान्येन प्रागुक्तानि नवोदयस्थानानि एकोननवतिवर्जानि च पञ्च पञ्च सत्तास्थानानि । एकोननवतिस्तु न सम्भवति, एकोननवतिसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धारम्भासम्भवात् । तानि च पश्च पञ्च सत्तास्थानानि एकविंशति-चतुर्विंशति-पञ्चविंशति-पड्विशत्युदयेषु प्रागिव भावनीयानि । सप्तविंशति-अष्टाविंशति-एकोनत्रिंशत् त्रिंशद्-एकत्रिंशद्रपेषु च पञ्चसु उदयस्थानेषु अष्टसप्ततिवर्जानि शे'पाणि चत्वारि चत्वारि भावनीयानि, अष्टसप्ततिप्रतिषेधे कारणं प्रागुक्तमनुसरणीयम् । सर्वमङ्ख्यया मिथ्यादृष्टेस्त्रिंशतं बनतश्चत्वारिंशत् सत्तास्थानानि । मनुजगति-देवगतिप्रायोग्या तु त्रिंशद् मिथ्यादृष्टेन बन्धमायाति, मनुजगतिप्रायोग्या हि त्रिंशत् तीर्थकरनामसहिता, देवगतिप्रायोया त्वाहारक-तीर्थकरनामसहिता, ततः सा कथं मिथ्यादृष्टेबन्धमायाति' ? ।
तदेवमुक्तो मिथ्यादृष्टेवेन्ध-उदय-सत्तास्थानसंवेधः । सम्प्रति सासादनस्य बन्ध-उदय-सत्तास्थानान्युच्यन्ते-"तिग सत्त दुगं" ति त्रीणि बन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । तत्राष्टाविंशतिद्विधा-देवगतिप्रायोग्या नरकगतिप्रायोग्या च । तत्र नरकगतिप्रायोग्या सासादनस्य न बन्धमायाति, देवगतिप्रायोग्यायाश्च बन्धकास्तिर्यक्पञ्चेन्द्रिया मनुष्याश्च । तस्यां चाष्टाविंशतो बध्यमानायामष्टो भङ्गाः । तथा सासादना एकेन्द्रिया विकलेन्द्रि यास्तियक्पञ्चेन्द्रिया मनुष्या देवा नैरयिकाश्च तिर्यक्पञ्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां वा एकोनत्रिंशतं बध्नन्ति न शेषाम् । अत्र च भङ्गाश्चतुःषष्टिशतानि ६४००, तथाहि-सामादना यदि तिर्यपञ्चेन्द्रियप्रायोग्याम् अथवा मनुष्यगतिप्रायोग्याम् एकोनविंशतं बध्नन्ति तथापि न ते हुण्डसंस्थान सेवा च मंहननं बध्नन्ति, मिथ्यात्योदयाभावात् । ततश्च तिर्यक्पञ्चेन्द्रियप्रायोग्यामेकोनत्रिंशतं वध्नतः पञ्चभिः संस्थानः पञ्चभिः संहननः प्रशस्ता-प्रशस्तविहायोगतिभ्यां स्थिराऽस्थिराभ्यां शुभा-ऽशुभाभ्यां सुभग दुर्भगाभ्यां सुस्वर-दुःस्वराभ्याम् आदेया ऽनादेयाभ्यां यशःकीर्ति अयशःकीर्तिभ्यां च भङ्गा द्वात्रिंशच्छतानि ३२००, एवं मनुष्यगतिप्रायोग्यामपि बध्नतो द्वात्रिंशच्छतानि ३२००, ततः सर्वसङ्ख्यया चतुःषष्टिशतानि ६४०० भवन्ति । तथा सासादना एकेन्द्रिया विकलेन्द्रियास्तिर्यपञ्चेन्द्रिया मनुष्या देवा नैगयका या यदि त्रिंशतं बध्नन्ति तर्हि तिर्यपञ्चेन्द्रियप्रायोग्यामेवोद्योतसहितां न शेषाम् । तां च वध्नतां प्रागिव भङ्गकानां द्वात्रिं. शच्छतानि ३२०० । सर्वबन्धस्थानभङ्गसङ्ख्या अष्टाधिकानि षण्णवतिशतानि ६६०८ ।
उक्तरूपभङ्गसङ्ख्यानिरूपणार्थमियमन्तर्भाष्यगाथा--
१ म० छा० मुद्रि००षाणि प्रत्येकं चत्वा० ॥२ सं १ सं० २ त० म००कद्विकनामस० ॥ ३ मुद्रिः व्याति ? इति ।। ४ मुद्रि००न्ति, तथास्वाभाव्यात् ; त०॥