________________
४६-५० ]
चन्द्रमित्त कृतं सप्ततिकाप्रकरणम् ।
सम्भवति । सर्वसङ्ख्यया अष्टाविंशतिबन्धे सप्त सत्तास्थानानि । देवगतिप्रायोग्यवर्जां शेषामेकोनत्रिंशतं विकलेन्द्रिय-तिर्यक् पञ्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां च बध्नतो मिथ्यादृष्टेः सामान्येन नवापि प्राक्तनानि उदयस्थानानि षट् च सत्तास्थानानि, तद्यथा - द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिः । तत्रैकविंशत्युदये सर्वाण्यपीमानि प्राप्यन्तेः तत्राप्येकोननवतिर्वद्धतीर्थ करनामानं मिथ्यात्वं गतं नैरयिकमधिकृत्यावसेया, द्विनवतिरष्टाशीतिश्च देव-नैरयिक-मनुज-विकलेन्द्रिय तिर्यक्पञ्चेन्द्रिय-एकेन्द्रियानधिकृत्य, षडशीतिरशीतिश्च विकले - न्द्रिय तिर्यक्पञ्चेन्द्रिय- मनुज- एकेन्द्रियानधिकृत्य', अष्टसप्ततिरे केन्द्रिय-विकलेन्द्रिय तिर्यक्पञ्चेन्द्रि यानधिकृत्य | चतुर्विंशत्युदये एकोननवतितर्जानि शेषाणि पञ्च सत्तास्थानानि तानि चैकेन्द्रि यावधिकृत्य वेदितव्यानि अन्यत्र चतुर्विंशत्युदयस्याभावात् । पञ्चविंशत्युदये पडपि सत्तास्थानानि, तानि यथैकविंशत्युदये भावितानि तथैव भावनीयानि । षड्विंशत्युदये एकोननवतिवर्जीनि शेषाणि पञ्च सत्तास्थानानि तानि प्रागिव भावनीयानिः एकोननवतिस्तु न लभ्यते, यतो मिथ्यादृष्टेः सत एकोननवतिर्नर के पूत्पद्यमानस्य नैरयिकस्य प्राप्यते न शेषस्य, न च नैरयिकस्य पविशत्युदयः सम्भवति । सप्तविंशत्युदयेऽष्टमसतिवर्जानि शेषाणि पश्च सत्तास्थानानितत्रैकोननवतिः प्रागुक्तस्वरूपं नैरयिकमधिकृत्य, द्विनवतिरष्टाशीतिश्च देव-नैरयिक-मनुज-धिकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-एकेन्द्रियानधिकृत्य, पडशीतिरशीतिश्च एकेन्द्रिय विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्यानधिकृत्य । अष्टसप्ततिस्तु न सम्भवति, यतः सप्तविंशत्युदयस्तेजो-वायुवर्जानामेकेन्द्रियाणामात-उद्योतान्यतरसहितानां भवति, नारकादीनां वा, न च तेषामष्टसप्ततिः, तेषा - मवश्यं मनुष्यद्विकबन्धसम्भवात् । एतान्येव पञ्च सत्तास्थानान्यष्टाविंशत्युदयेऽपि तत्रैकोननवतिर्द्विनवतिरष्टाशीतिश्च प्रागिव भावनीया, षडशीतिरशीतिश्च विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियमनुष्यानधिकृत्य वेदितव्या । एवमेकोनत्रिंशदुदयेऽप्येतान्येव पश्च सत्तास्थानानि भावनीयानि । त्रिंशदुदये चत्वारि तद्यथा — द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः । एतानि विकले - न्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्यानधिकृत्य वेदितव्यानि । एकोननवतिस्तु न प्राप्यते, यतः सा वेदसम्यग्दृष्टेः सतो बद्धतीर्थकरनाम्नो मिथ्यात्वं गतस्य नैरयिकस्य प्राप्यते, न च नैरयिकस्य त्रिंशदुदयोऽस्ति । एकत्रिंशदुदयेऽप्येतान्येव चत्वारि, तानि च विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियानधिकृत्य द्रष्टव्यानि । सर्वसङ्ख्यया मिथ्यादृष्टेरे कोनत्रिंशतं बध्नतः पञ्चचत्वारिंशत् सत्तास्थानानि । या तु देवगतिप्रायोग्या एकोनत्रिंशत् सा मिथ्यादृष्टेन बन्धमायाति कारणं प्रागेवोक्तम् | मनुष्य- देवगतिप्रायोग्यवर्जा शेषां त्रिंशतं विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियप्रायोग्यां बध्नतः
२५६
१ छा० मुद्रिव्य वेदितव्या, भष्ट० ॥ २ इत उर्ध्वम् छा० म० ग्रन्थाग्रम् २६३० ।। ३ सं० सं० १ सं० २ त०म० छा० सा मिथ्यादृष्टेः स० ॥