________________
•५८ ] मलयगिरिमहर्षिविरचितविवृत्युपेतः
[ गाथाः लभ्यते । अष्टमप्ततिस्तेजो वायूनां मनुष्यगति-मनुष्यानुपूर्योरुद्वलितयोः प्राप्यते । तेजो-वायुभवाद् उद्धृत्य विकलेन्द्रियेषु तिर्यक्पञ्चेन्द्रियेषु वा मध्ये समुत्पन्नानामन्तमुहूर्त कालं यावद् परतोऽवश्यं मनुष्यगति -मनुष्यानुपूयोर्वन्धसम्भवान् ।
तदेवं सामान्येन मिथ्यादृष्टेबन्ध-उदय-सत्तास्थानान्युक्तानि । सम्प्रति संवेध उच्यते-तत्र मिथ्यादृष्टेस्त्रयोविंशतिं बध्नतः प्रागुक्तानि नवाप्युदयस्थानानि सप्रभेदानि सम्भवन्ति । केवलमेकविंशति-पञ्चविंशति-सप्तविंशति-अष्टाविंशति--एकोनत्रिंशत्-त्रिंशद्र पेषु पट्सूदयस्थानेषु देवनैयिकानधिकृत्य ये भङ्गाः प्राप्यन्ते ते न सम्भवन्ति । त्रयोविंशतिर्हि अपर्याप्ते केन्द्रियप्रायोग्या, न च देवा अपर्याप्त केन्द्रियप्रायोग्य बध्नन्ति, तेषां तत्रोत्पादाभावात् ; नापि नैरयिकाः, तेषां सामान्यतोऽप्येकेन्द्रियप्रायोग्यबन्धासम्भवात् , ततोऽत्र देव-नैरयिकसत्कोदयस्थानभङ्गा न प्राप्यन्ते । सत्तास्थानानि पञ्च, तद्यथा-द्विनवतिः अष्टाशीतिः एडशीतिः अशीतिः अष्टसप्ततिश्च । तत्रै कविंशति-चतुर्विंशति-पञ्चविंशति-पड्विशत्युदयेषु पश्चापि सत्तास्थानानि । नवरं पञ्चविंशत्युदये तेजो वायुकायिकानधिकृत्याष्टसप्ततिः प्राप्यते. पड्विशत्युदये तेजो-वायुकायिकान तेजो-वायुभवाद् उद्धृत्य विकलेन्द्रिय-तिर्यपञ्चेन्द्रियेषु मध्ये समुत्पन्नान वाऽधिक त्य प्राप्यते सप्तविंशति-अष्टाविंशति-एकोनत्रिंशन -त्रिंशद्-एकत्रिंशद्र पेषु पञ्चसु अष्टसप्ततिवर्जानि शेषाणि प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि । सर्वमङ्ख्यया सर्वाण्युदयस्थानान्यांधकृत्य त्रयोविंशतिबन्धकस्य चत्वारिंशत् सत्तास्थानानि । एवं पञ्चविंशति-पडिवशतिबन्धकानामपि वक्तव्यम् , कालमिह देवोऽप्यान्मीयेषु सर्वेष्वप्युदयस्थानेषु वर्तमानः पर्याप्तकैकेन्द्रि यप्रायोग्यां पञ्चविंशति पविशतिं च बनातीत्यवसेयम् । नवरं पश्चविंशतिवन्धे बादर-पर्याप्त -प्रत्यक-स्थिरा-ऽस्थिरशुभा-ऽशुभ-दुर्भगा-ऽनादेय-यशःकीर्ति-अयश कीर्तिपदेष्टौ भङ्गा अवसे याः न शेषाः, सूक्ष्मसाधारणा-ऽपर्याप्त केषु मध्ये देवस्योत्पादाभावात् । सत्तास्थानभावना पश्चविंशतिबन्धे पड्विशतिबन्धे च प्रागिव कर्तव्या। सर्वसङ्घयया चत्वारिंशत् चत्वारिंशत् सत्तास्थानानि । अष्टाविंशतिबन्धकम्य मिथ्यादृष्टेढे उदयस्थाने, तद्यथा-त्रिंशद् एकत्रिंशत् । तत्र त्रिंशत तिर्यपञ्चेन्द्रिय-मनुष्यानधिकृत्य, एकत्रिंशत् तिर्यपञ्चेन्द्रियानेव । अष्टाविंशतिबन्धकस्य चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिः एकाननवतिः अष्टाशीतिः पडशीतिः । तत्र त्रिंशद्दये चत्वार्यपिः तत्राप्येकोननवतियों नाम वदकसम्यग्दृष्टिद्वतीर्थकरनामा परिणामपरावर्तनेन मिथ्यात्वं गतो नरकाभिमुखो नरकगतिप्रायोग्यामष्टाविंशतिं बध्नाति तमधिकृत्य देदितव्या, शेषाणि पुनस्त्रीणि सत्तास्थ नान्यविशेषेण तियग-मनुष्याणाम् । एकत्रिंशदुदये एकोननवतिवांनि त्रीणि सत्तास्थानानि, एकोननवतिर्हि तीर्थकरनामसहिता, न च तीर्थकरनाम तियक्ष
१ सं० १ त० म० हूर्त का० । २ सं० स २ छा० न्त्य । सप्त० ॥