SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ४६-५० ] चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् । २५७ मेव, अन्यत्र चतुर्विंशत्युदयस्याभावात् । पञ्चविंशत्युदये द्वात्रिंशत् - तत्रैकेन्द्रियाणां सप्त, वैक्रियतिर्यक्पञ्चेन्द्रियाणामष्टौ, वैक्रियमनुष्याणामष्टौ देवानामष्टौ नारकाणामेकः । पविशत्युदये षट् शतानि ६०० - तत्रै केन्द्रियाणां त्रयोदश, विकलेन्द्रियाणां नव, तिर्यक्पञ्चेन्द्रियाणां द्वे शते एकोननवत्यधिके २८६, मनुष्याणामपि द्वे शते एकोननवत्यधिके २८९ | सप्तविंशत्युदये एकत्रिंशत्-तत्रैकेन्द्रियाणां पट्, वैक्रियतिर्यक् पञ्चेन्द्रियाणामष्टौ वैक्रियमनुष्याणामष्टौ देवानामष्टौ नारकाणामेकः । अष्टाविंशत्युदये एकादश शतानि नवनवत्यधिकानि ११९९ - तत्र विकले - न्द्रियाणां पट् , तिर्यक्पञ्चेन्द्रियाणां पञ्च शतानि षट्सप्तत्यधिकानि ५७६, वैक्रियतिर्यक्पञ्चेन्द्रि या पोडश, मनुष्याणां पञ्च शतानि षट्सप्तत्यधिकानि ५७६, वैक्रियमनुष्याणामष्टौ देवानां पोडश, नारकाणामेकः । एकोनत्रिंशदुदये सप्तदश शतान्येकाशीत्यधिकानि १७८१ - तत्र विकलेन्द्रियाणां द्वादश, तिर्यक्पञ्चेन्द्रियाणामेकादश शतानि द्विपञ्चाशदधिकानि ११५२, वैक्रियतिर्यक्पञ्चेन्द्रियाणां पोडश, मनुष्याणां पञ्च शतानि पट्सप्तत्यधिकानि ५७६, वैक्रियमनुष्याणामष्टौ देवानां पोडश, नारकाणामेकः । त्रिंशदुदये एकोनत्रिंशच्छतानि चतुर्दशाधिकानि २६१४-तत्र विकलेन्द्रियाणामष्टादश, तिर्यक्पञ्चेन्द्रियाणां सप्तदश शतान्यष्टाविंशत्यधिकानि १७२८, वैक्रियतिर्यक्पञ्चेन्द्रियाणामष्टौ मनुष्याणामेकादश शतानि द्विपञ्चाशदधिकानि ११५२, देवानामष्टौ । एकत्रिंशदुदये एकादश शतानि चतुःषष्ट्यधिकानि १९६४ - त्त्र विकलेन्द्रियाणां द्वादश, तिर्यक्पञ्चेन्द्रियाणामेकादश शतानि द्विपञ्चाशदधिकानि १९५२ । सर्वसङ्ख्या सप्त सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि ७७७३ । मिथ्यादृष्टेः षट् सत्तास्थानानि तद्यथा - द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिः । तत्र द्विनवतिः चतुर्गतिकानामपि मिथ्यादृष्टीनामवसेया । यदा पुनर्नरकेषु बद्धायुको वेदकसम्यग्दृष्टिः सन् तीर्थकरनाम बद्ध्वा परिणामपरावर्तनेन मिध्यात्वं गतो नरकेषु समुत्पद्यमानस्तदा तस्यैकोननवतिरन्तमुहूर्त्तं कालं यावत् लभ्यते, उत्पत्तेरूर्ध्वमन्तर्मुहूर्तानन्तरं तु सोऽपि सम्यक्त्वं प्रतिपद्यते । अष्टाशीतिश्चतुर्गतिकानामपि मिथ्यादृष्टीनाम् । पर ैशीतिरशीतिश्चै केन्द्रियेषु यथायोगं देवगतिप्रायोग्ये नरकगतिप्रायोग्ये चोलिते सति लभ्यते, एकेन्द्रियभवाद् उद्धृत्य विकलेन्द्रियेषु तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु वा मध्ये समुत्पन्नानां सर्वपर्यातिभावादुर्ध्वमप्यन्तमुहूर्तं कालं यावद् लभ्यते, परतोऽवश्यं वैक्रियशरीरादिवन्धसम्भवाद् न १ सं० १ ० म० कलानां न । २ सं० १ ० म० 'हूर्तका ।। ३ सं० १ त० म० 'शीतिरेकेन्द्रि° ॥ ४ [सं०] १० म० छ० °ते । अशीतिस्तु त्रिनवतेस्तीर्थकराहारकचतुष्टयादिषु त्रयोदशसु प्रकृतिषु उद्वलितासु लभ्यते एके° ।। ५ सं० १ ० म० ०हूर्तका० ॥ 33
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy