________________
०५६
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथाः
I
योग्यायां तु बध्यमानाय प्रत्येकमेकैको भङ्ग इति सर्वसङ्ख्यया पञ्चविंशतिः । पर्याकेन्द्रियप्रायोग्यं बध्नतः पविशतिः, तस्यां च बध्यमानायां भङ्गाः पोडश । देवगतिप्रायोग्यं नरकगतिप्रायोग्यं वातोऽष्टाविंशतिः । तत्र देवगतिप्रायोग्यायामष्टाविंशतौ अष्टौ भङ्गाः, नरकगतिप्रायोग्यायां त्वेक इति, सर्वसङ्ख्यया नव । पर्याप्तद्वि-त्रि- चतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्यप्रायोग्यं बध्नतामेकोनत्रिंशत् । तत्र पर्याप्तद्वि- त्रि- चतुरिन्द्रियप्रायोग्यायामे कोनविंशति बध्यमानायां प्रत्येकमष्टावष्टौ भङ्गाः, तिर्ववपञ्चेन्द्रियप्रायोग्यायां षट्चत्वारिंशच्छतान्यष्टाधिकानि ४६०८, मनुष्यगतिप्रायोग्यायामप्येतावन्त एव भङ्गाः ४६०८, सर्वसङ्ख्या चत्वारिंशदधिकानि द्विनवतिशतानि २४० । या तु देवगतिप्रायोग्या तीर्थकरनामसहिता एकोनत्रिंशत् सा मिथ्याइष्टेर्नबन्धमायाति तीर्थकर नाम्नः सम्यक्त्वप्रत्ययत्वात् मिथ्यादृष्टेश्व तदभावात् । पर्याप्तद्वि-त्रिचतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रियप्रायोग्यं बध्नस्त्रिंशत् । तत्र पर्याप्तद्वित्रि- चतुरिन्द्रियप्रायोग्याणां त्रिंशति बध्यमानायां प्रत्येकमष्टावष्टौ भङ्गाः, तिर्यक्पञ्चेन्द्रियप्रायोग्यायां त्वष्टाधिकानि षट्चत्वारिंशच्छतानि ४६०८, सर्वसङ्ख्यया द्वात्रिंशदुत्तराणि पट्चत्वारिंशच्छतानि ४३३२ | या च मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता त्रिंशत्, या च देवगतिप्रायोग्या आहारकद्विकमहिता, ते उभे अपि मिथ्यादृष्टेर्न बन्धमायातः, तीर्थकरनाम्नः सम्यक्त्वप्रत्ययत्वात्, आहारकनाम्नस्तु संयमप्रत्ययत्वात् । उक्तं च
सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं । इति । त्रयोविंशत्यादिषु च बन्धस्थानेषु यथासङ्ख्यं भङ्गसङ्ख्यानिरूपणार्थमियमन्तर्भाष्यगाथाचउ पणवीसा सोलस, नव चत्ताला सया य बाणउया । बत्तीसुत्तरछाया लसया मिच्छस्स बन्धविही ||८||
सुगमा ||
तथा मिथ्यादृष्टेर्नव उदयस्थानानि, तद्यथा - एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः पविशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । एतानि सर्वाण्यपि नानाजीवापेक्षया यथा प्राक् सप्रपञ्चमुक्तानि तथाऽत्रापि वक्तव्यानि, केवलमाहारकसंगतानां वैक्रियमं - यतानां केवलिनां च सम्बन्धीनि न वक्तव्यानि तेषां मिथ्यादृष्टित्वाभावात् । सर्वसङ्घयया मिथ्यादृष्टावुदयस्थानभङ्गाः सप्त सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि ७७७३ | तथाहि — एकविंशत्यु'दये एकचत्वारिंशत्-तत्रै केन्द्रियाणां पञ्च, विकलेन्द्रियाणां नव, तिर्यक्पञ्चेन्द्रियाणां नवः मनुष्याणां नव, देवानामष्टौ नारकाणामेकः । तथा चतुर्विंशत्युदये एकादश, ते केन्द्रियाणा
१ इत ऊर्ध्वम्-छा० ग्रन्थायम् - २५३३ ।। २ सम्यक्त्वगुणनिमित्तं तीर्थकरं संयमेन आहारम् || ३ २४९ पृष्ठगता ७ संख्याका टिप्पणी अवलोकनीया ॥ ४ सं० त० म० ण्दये वर्तमानस्य० ए° ॥