________________
४८-५० ]
चन्द्रमित्रकृतं प्रतिकाप्रकरणम् ।
२५५
"
अष्टाविंशतिः चतुर्विंशतिः एकविंशतिश्च । पञ्चकोदये पञ्च सत्तास्थानानि तद्यथा - अष्टाविं शतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च । एतान्येव पश्च पडदये । सप्तोदये चत्वारि, तद्यथा - अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः । सर्वसङ्ख्यया सप्तदश । एवमप्रमत्तेऽपि बन्ध उदय-सत्तास्थानसंवेधोऽन्यूनातिरिक्तो वक्तव्यः । अपूर्वकर ो बन्धस्थानं नव त्रीण्युदयस्थानानि तद्यथा - चत्वारि पञ्च षट् । एतेषु प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिश्च । सर्वसङ्ख्यया नव | अनिवृत्तिबादरे पश्च बन्धस्थानानि, तद्यथा चत्वारि त्रीणि एकं च । पञ्चके बन्धस्थाने द्विकोदये पद् सत्तास्थानानि तद्यथा - अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः त्रयोदश द्वादश एकादश । चतुष्के बन्धस्थाने एकोदये पटू सत्तास्थानानि तद्यथा - अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः एकादश पञ्च चत्वारि । त्रिके बन्धस्थाने एकोदये पञ्च सत्तास्थानानि तद्यथा - अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः चत्वारि त्रीणि च । द्विके बन्धस्थाने एकोदये पञ्च सत्तास्थानानि, तद्यथा - अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः त्रीणि द्वे च । एकविधे बन्धस्थाने एकोदये पश्च सत्तास्थानानि तद्यथा - अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः द्वे एकं च । सर्वसङ्ख्यया सप्तविंशतिः । बन्धाभावे सूक्ष्मसम्पराये एकोदये चत्वारि सत्तास्थानानि तद्यथा - अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः एकं च । उपशान्तमोहे बन्ध उदयो न स्तः, सत्तास्थानानि, पुनस्त्रीणि तद्यथा - अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः । सर्वत्रापि च सत्तास्थाने भावना यथा अधस्वादोवसंवेधचिन्तायां कृता तथाऽत्रापि कर्तव्या ॥ ४८ ॥
1
तदेवं चिन्तितं गुणस्थानकेषु मोहनीयम् । सम्प्रति नाम चिचिन्तयिषुराहpura छक्कं तिग सत्त दुग दुग तिग दुर्गा तिगड चऊ |
दुग छ चउ दुग पण चउ, घउ दुग चड पणग एग चऊ ॥ ४९ ॥ एगेगमट्ठ एगेग मठ्ठ छउमत्थकेवलि जिणाण |
एग चऊ एग चऊ, अट्ठ चउ दु छक्कमुदयंसा || ५०||
मिथ्यादृष्टौ नाम्नः षड् बन्धस्थानानि तद्यथा - त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । तत्रापर्याप्तकैकेन्द्रियप्रायोग्यं बध्नतस्त्रयोविंशतिः, तस्यां च बध्यमानायां बादर-सूक्ष्म-प्रत्येक साधारणैर्भङ्गाश्चत्वारः । पर्याप्त केन्द्रियप्रायोग्यमपर्याप्तद्वि-त्रि- चतुरिन्द्रिय तिर्यक्पञ्चेन्द्रिय-मनुष्यप्रायोग्यं च बध्नतः पञ्चविंशतिः । तत्र पर्याप्त केन्द्रियप्रायोग्यायां पञ्चविंशतौ बध्यमानायां भङ्गा विंशतिः, अपर्याप्तद्वि- त्रि- चतुरिन्द्रिय- तिर्यक्पञ्चेन्द्रिय- य-मनुष्यप्रा
१ स० छा० मुद्रि० 'था प्रागध' ॥