________________
२५४ मलयगिरिमहर्षिविनिर्मितधिवृत्युपेतं
[गाथा अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च । 'निवृत्तौ, अपूर्वकरणे त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिश्च । तत्राद्ये द्वे उपशमश्रेण्याम् , एकविशतिः क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां क्षपक श्रेण्यां वा । "एक्कार बायरम्मि" त्ति 'बादरे' अनिवृत्तिबादरे एकादश सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः त्रयोदश द्वादश एकादश पञ्च चतस्रः तिम्रः द्वे एका च । तत्राद्ये द्वे औपशमिकसम्यग्दृष्टः, एकविंशतिः क्षायिकसम्यग्दृष्ट रुपशमश्रण्यां अथवा क्षपकोण्यामपि यावत् कषायाष्टकं न क्षोयते, कषायाष्टके तु क्षीणे त्रयोदश, नपुमकवेदे श्रीणे द्वादश, ततः स्त्रीवेदे क्षीणे एकादश, षटसु नोकपायेषु क्षीणेषु पञ्च, ततः पुरुषवेदे क्षीणे चतस्रः, ततः संज्वल नक्रोधे क्षीणे तिस्रः, संज्वलनमाने क्षीणे द्वे, ततः संज्वलनमायायां क्षीणायां एकेति । "सुहुमे चउ" नि सूक्ष्मसम्पराये चत्वारि सत्तास्थानानि, तद्यथा- अष्टाविंशतिः चतुर्विशतिः एकविंशतिः एका च । तत्राद्यानि त्रीणि उपशमश्रेण्याम् , एका प्रकृतिः क्षपकण्याम् । 'उपशान्ते' उपशान्तमोहे त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुविशतिः एकविंशतिश्च ।।
सम्प्रति संवेध उच्यते-तत्र मिथ्यादृष्टो द्वाविंशतिबन्धस्थानं, चत्वादयस्थानानि, तद्यथा--सप्त अष्टौ नव दश । तत्र मप्तोदये अष्टाविंशतिरूपमेकं सत्तास्थानम् । अष्टादिषु तूदयस्थानेषु त्रिषु प्रत्येकं त्रीणि त्रीणि सत्ताम्थानानि, तद्यथा--अष्टाविंशतिः सप्तविंशतिः पविशतिश्च । सई सङ्ख्यया दश । सासादने एकविंशतिर्थन्धस्थानं त्रीण्युदयस्थानानि, तद्यथासप्त अष्टो नव । एतेषु प्रत्येकमेकेकं सत्तास्थानम् , तद्यथा-अष्टाविंशतिः । सर्वसङ्ख्यया त्रीणि सत्तास्थानानि । सम्यग्मिथ्यादृष्ट। बन्धम्थानं सप्तदश त्रीण्युदयम्थानानि, तद्यथा-सप्त अष्टौ नव । एतेषु प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि, तद्यथा-अभाविंशतिः सप्तविंशतिः चतुर्विंशतिश्च । सर्वसङ्ख्यया नव । अविरतसम्यग्दृष्टो बन्धस्थानं सप्तदश, चत्वायु दयस्थानानिः तद्यथाषट् सप्त अष्टौ नव । तत्र पडुदये त्रीणि सत्तास्थानानि तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिश्च, सप्तोदये पञ्च सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च । एतान्येव पञ्च अष्टोदये । नवोदये चत्वारि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः । सर्वसङ्ख्यया सप्तदश । देशविरते त्रयोदश बन्धस्थानं चत्वायु दयस्थानानि, तद्यथा- पञ्च पद सप्त अष्टौ । तत्र पञ्चकोदये त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः । षडुदये पञ्च सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिः । एतान्येव पञ्च सप्तोदये अष्टोदये एकविंशतिवर्जानि शेषाणि चत्वारि, सर्वसङ्खच्या सप्तदश । प्रमत्तसंयते बन्धस्थानं नव, चत्वायुदयस्थानानि, तद्यथा-चत्वारि पश्च षट् सप्त । तत्र चतुरुदये त्रीणि सत्तास्थानानि, तद्यथा