Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 561
________________ मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं [ गाथाः -. I सम्प्रत्यनिवृत्तिवादरस्य बन्धादिस्थानान्युच्यन्ते - "एगेग मट्ठ" ति अनिवृत्तिबादरस्यैकं बन्ध"स्थानम् - यशः कीर्तिः । एकमुदयस्थानम् - त्रिंशत् । अष्टौ सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । तत्राद्यानि चत्वा शमण्यां क्षपकश्रेण्यां वा यावद् नामत्रयोदशकं न क्षीयते । त्रयोदशसु च नामसु यथाक्रमं त्रिनवत्यादेः क्षीणेषूपरितनानि चत्वारि सत्तास्थानानि भवन्ति । बन्ध-उदय-स्थानभेदाभावादत्र संवेधो न सम्भवतीति नाभिधीयते । २६८ सूक्ष्मसम्परायस्य बन्धादीन्युच्यन्ते - "एगेगमट्ठ" त्ति सूक्ष्मसम्परायस्यैकं बन्धस्थानम्यशःकीर्तिः । एक्रमुदयस्थानम् - त्रिंशत् । अष्टौ सत्तास्थानानि तानि चानिवृत्तिवादरस्येव वेदितव्यानि । तत्राद्यानि चत्वायुपशमश्रेण्यामेव उपरितनानि तु षकश्रेण्याम् । “छ उमत्थ केवलिजिणाणं" इत्यादि । छद्मस्थजिना:---उपशान्तमोहाः क्षीणमोहाश्च, केवलजिना:---सयोगिकेवलिनोऽयोगिकेवलिनश्च तेषां यथाक्रममुदय-सत्तास्थानानि - "एक्क चऊ " इत्यादीनि । तत्रोपशान्तमोहस्यैकमुदयस्थानम्---त्रिंशत् । चत्वारि सत्तास्थानानि तद्यथा--- -- त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च । क्षीणकषायस्यैकमुदयस्थानम् - त्रिंशत् । अत्र भङ्गाश्चतुर्विंशतिरेव, वज्रर्षभनाराचसंहननयुक्तस्यैव क्षपकथं ण्यारम्भसम्भवात् । तत्रापि तीर्थकर सत्कर्मणः क्षीणमोहस्य सर्व संस्थानादि प्रशस्तमित्येक एवं भङ्गः । I चत्वारि सत्तास्थानानि, तद्यथा--- अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । एकोनाशीति पञ्चमसती अतीर्थकर सत्कर्मणो वेदितव्ये । अशीति षट्सप्तती तु तीर्थकरसत्कर्मणः । सयोगिकेवलिनोऽष्टावुदयस्थानानि तद्यथा- विंशतिः एकविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । एतानि सामान्यतो नाम्न उदयस्थानचिन्तायां सप्रपञ्चं विवृतानीति न भूयो वित्रियन्ते । चत्वारि सत्तास्थानानि, तद्यथा---अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः । सम्प्रति संवेध उच्यते--- स च जीवस्थानेषु पर्याप्तसंज्ञिद्वारे यथा कृतस्तथाऽत्रापि भावयितव्यः । अयोगिवलिनो द्वे उदयस्था 'ने, तद्यथा - नव अष्टौ च । तत्राष्टोदयोऽतीर्थकरायोगिकेवलिनः, नवोदय स्तीर्थ करायोगिकेवलिनः । षट् सत्तास्थानानि, तद्यथा - अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः नव अष्टौ च । १ स १ त०म० ने वेदितव्ये, तद्य० ॥। २००२ मुद्रि० च । तत्राष्टो० ॥

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602