Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 559
________________ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथा द्वे द्वे सत्तास्थाने, तद्यथा--द्विनवतिरष्टाशीतिश्च । एवं तिरश्चोऽपि, नवरं तस्यकत्रिंशदुदयोऽपि वक्तव्यः, तत्रापि चैते एव द्वे सत्तास्थाने । एकोनत्रिंशद्वन्धो मनुष्यस्येव देशविरतस्य, तस्योदयस्थानान्यनन्तरोक्तान्येव पञ्च, तेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा---त्रिनवतिरेकोननवतिश्च । तदेवं देशविरतस्य पञ्चविंशत्यादिषु त्रिंशत्पर्यन्तेषु चत्वारि चत्वारि सत्तास्थानानि । एकत्रिंशदुदये द्वे सत्तास्थाने । सर्वसङ्ख्यया द्वाविंशतिः २२ । ___ सम्प्रति प्रमत्तसंयतम्य बन्धादिस्थानान्युच्यन्ते---"दुग पण चउ' त्ति प्रमत्तसंयतस्य द्वं बन्धस्थाने, तद्यथा--अष्टाविंशतिरेकोनत्रिंशत् । एते च देशविरतस्येव भावनीये । पश्चोदयस्थानानि, तद्यथा--पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् , एतानि सर्वाण्यप्याहारकसंयतस्य वे क्रियसंयतम्य वा वेदितव्यानि । त्रिंशत् स्वभावस्थसंयत. स्यापि । तत्र वैक्रियसंयतानामाहारकसंयतानां च पृथक पृथक् पश्चविंशति-सप्तविंशत्युदययोः प्रत्येकमेकैको भङ्गः ४, अष्टाविंशतावेकोनविंशति च द्वो द्वौ ८, त्रिंशति चैकैकः २ । सर्वसङ्खथया चतुर्दश १४ । त्रिंशदुदयः स्वभावस्थस्यापि प्राप्यते । तत्र चतुश्चत्वारिंशं शतं भङ्गानाम् १४४, तच्च देशविरतस्येव भावनीयम् । सर्वसङ्ख्ययाऽष्टपञ्चाशदधिकं शतम् १५८ ।। चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टार्श तिश्च । सम्प्रति संवेध उच्यते-अष्टाविंशतिवन्धकस्य पश्चस्वप्युदयम्थानेषु प्रत्येक द्वे द्वे सत्तास्थाने, तद्यथा- द्विनवतिरष्टाशीतिश्च । तत्राहारकसंयतस्य द्विनवतिरेव, आहारकमकर्मा ह्याहारकशरीरमुत्पाद 'यतीति तस्य द्विनवतिरेव । वैक्रियसंयतस्य पुनढे 'अपि । तीर्थकरनामसत्कर्मा चाष्टाविंशतिं न बध्नातीति विनवतिरेकोननवतिश्च न प्राप्यते । एकोनत्रिंशद्वन्धकस्य पश्चस्वप्युदयस्थानेषु प्रत्येक द्वे द्वे सत्तास्थान, तद्यथा-त्रिनवतिरेकोननवतिश्च । तत्राहारकसंयतस्य त्रिनवतिरेव, तस्यकोनत्रिंशद्वन्धकस्य नियमतस्तीर्थकरा-ऽऽहारकसद्भावात् । वैक्रियसंयतम्य पुनद्रे अपि । तदेवं प्रमत्तसंयतस्य सर्वेष्वप्युदयस्थानेषु प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि प्राप्यन्त इति । सर्वसङ्ख्यया विंशतिः २० । ___ इदानीमप्रमत्तसंयतस्य बन्धादीन्युच्यन्ते-"चउ दुग चउ" ति अप्रमत्तसंयतस्य चत्वारि बन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनविंशत् त्रिंशद् एकत्रिंशत् । तत्राद्ये द्वे प्रमत्तसंय तस्येव भावनीये । सेवाष्टाविंशतिराहारकद्विकसहिता त्रिंशत् । आहारकद्विक-तीर्थकरसहिता त्वेकत्रिंशत् । एतेषु चतुर्वपि बन्धस्थानेषु भङ्ग एकेक एव वेदितव्यः, अस्थिरा-ऽशुभा-ऽयश:कीर्तीनामप्रमत्तसंयते बन्धाभावात् । १ सं० मुद्रि० ०यति ततस्तस्य ।। २ सं० अपि सत्तास्थाने । ती० ॥

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602