Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 557
________________ मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं [ गाथा प्यधिकृत्याष्टौ, नैरयिकानधिकृत्यैकः । पञ्चविंशति- सप्तविंशत्युदयौ देव-नैरयिकान् वैक्रियतिर्यङ्मनुष्यांश्चाधिकृत्यावसेयौ । तत्र नैरयिकः क्षायिकसम्यग्दृष्टिर्वेदकसम्यग्दृष्टि, देवस्त्रिविधसम्यदृष्टिरपि । उक्तं च चूर्णौ २६४ 'पणवीस सत्तावीसोदया देव-नेरइए विउब्वियतिरिय- मणुए य पच्च, arsगो खड्ग-वेगसम्मदिट्ठी, देवो तिविहसम्मद्दिट्ठीवि । इति । भङ्गात्र सर्वेऽप्यात्मीया आत्मीया द्रष्टव्याः । षड्विंशत्युदयः तिर्यङ्- मनुष्याणां क्षायिक-वेदकसम्यग्दृष्टीनाम् । औपशमिकसम्यग्दृष्टिश्च तिर्यङ्- मनुष्येषु मध्ये नोत्पद्यत इति त्रिविधसम्यग्दृष्टीनामिति नोक्तम् | वेदकसम्यग्दृष्टिता च तिरवो द्वाविंशतिसत्कर्मणो वेदितव्या । अष्टाविंशतिएकोनत्रिंशदुदयौ नैरयिक-तिर्यङ्-मनुष्य- देवानाम् । त्रिंशदुदयस्तिर्यक्पञ्चेन्द्रिय मनुष्य देवानाम् । एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियाणाम् । भङ्गा आत्मीया आत्मीयाः सर्वेऽपि द्रष्टव्याः । चत्वारि सत्तास्थानानि, तद्यथा - त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च । तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकरा - ऽऽहारकसहितामेकत्रिंशतं बद्ध्वा पश्चादविरतसम्यग्दृष्टिदेवो जातस्तमधिकृत्य त्रिनवतिः । यस्त्वाहारकं बद्ध्वा परिणामपरावर्तनेन मिथ्यात्वमुपगम्य चतसृणां गतीनामन्यतमस्यां गतायुत्पन्नस्तस्य तत्र तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः । देव-मनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि द्विनवतिः प्राप्यते । एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्यग्दृष्टीनाम्, ते हि त्रयोऽपि तीर्थकरनाम समर्जयन्ति । तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यत इति तिर्यङ् न गृहीतः । अष्टाशीतिश्चतुर्गतिकानामविरतसम्यग्दृष्टीनाम् । , सम्प्रति संवेध उच्यते - तत्राविरतसम्यग्दृष्टेरष्टाविंशतिबन्धकस्य अष्टावप्युदयस्थानानि, तानि तिर्यङ्-मनुष्यानधिकृत्य । तत्रापि पञ्चविंशति- सप्तविंशत्युदयौ वैक्रियतिर्यङ्-मनुष्यानधिकृत्य । एकैकस्मिन्नुदयस्थाने, द्वे द्वे सत्तास्थाने, तद्यथा-- द्विनवतिरष्टाशीतिश्च । एकोनत्रिंशद्, । द्विधा -- देवगतिप्रायोग्या मनुष्यगतिप्रायोग्या च । तत्र देवगतिप्रायोग्या तीर्थकरनामसहिता, तांच मनुष्या एव बनन्ति । तेपां चोदयस्थानानि सप्त, तद्यथा - एकविंशतिः पञ्चविंशतिः पविशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । मनुष्याणामेकत्रिंशन्न सम्भवति । एकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने, तद्यथा - - त्रिनवतिः एकोननवतिश्च । मनुष्यगतिप्रायोग्यां चैकोनत्रिंशतं बध्नन्ति देव - नैरयिकाः । तत्र नैरयिकाणामुदयस्थानानि पञ्च तद्यथाएकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् । देवानां पञ्च ताव देतान्येव, १ पञ्चविंशति-सप्तविंशत्युदयौ देवनैरयिकान् वैकियतिर्यङ- मनुष्यांश्च प्रतीत्य नैरयिकः क्षायिकवेदकसम्यग्दृष्टिः, देवस्त्रिविधसम्यग्दृष्टिरपि ॥ २ म० मुद्रि० ०त्वमनुग० ॥

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602