Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
४९-५० ]
चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् ।
२६५
षष्ठं तु त्रिंशत्, सा चोद्योतवेद' कानां देवानामवगन्तव्या । एकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने, तद्यथा-- द्विनवतिरष्टाशीतिश्च । मनुष्यगतिप्रायोग्यां त्रिंशतमविरतसम्यग्दृष्टयो देवा नैरविकाश्च बध्नन्ति । तत्र देवानामुदयस्थानानि पर तान्येव । तेषु उदयस्थानेषु प्रत्येकं द्वे द्वे सत्तास्थाने- त्रिनवतिरेकोननवतिश्च । नैरयिकाणामुदयस्थानानि पञ्च तेषु प्रत्येकं सत्तास्थानमेक्रोननवतिरेव, तीर्थकरा-ऽऽहारक सत्कर्मणो नरकेषूत्पादाभावात् । तदेवं सामान्येनैकविंशत्यादिषु त्रिंशत्पर्यन्तेषूदयस्थानेषु सत्तास्थानानि प्रत्येकं चत्वारि चत्वारि, तद्यथा - त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्च । एकत्रिंशदुदये द्वे - द्विनवतिरष्टाशीतिश्च । सर्वसङ्ख्यया त्रिंशत् ।
1
सम्प्रति देशविरतस्य बन्धादिस्थानान्युच्यन्ते - " दुग छ च्च उ" ति देशविरतस्य द्वे बन्धस्थाने तद्यथा - अष्टाविंशतिरेकोनत्रिंशत् । तत्राष्टाविंशतिर्मनुष्यस्य तिर्यक्पञ्चेन्द्रियस्य वा देशविरतस्य देवगतिप्रायोग्या, तत्राष्टौ भङ्गाः । सैव तीर्थकरसहिता एकोनत्रिंशत् सा च मनुष्यस्यैव, तिरवस्तीर्थकर सत्कर्म - बन्धाभावात्, अत्राप्यष्टौ भङ्गाः ।
9
- षड् उदयस्थानानि, तद्यथा - पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्राद्यानि चत्वारि वैक्रियतियङ्- मनुष्याणाम् । अत्र मनुष्याणामेकैक एव भङ्गः, तिरश्चामाद्ययोरंकैकोऽन्तिमयोस्तु द्वौ द्वौ, सर्वपदानां प्रशस्तत्वात् । त्रिंशत् स्वभाव स्थानां तिर्यङ् - मनुष्याणाम्, प्रत्येकमत्र भङ्गकानां चतुश्चत्वारिंशं शतम् १४४, तच्च षड्भिः संस्थानैः षड्भिः संहननैः : सुस्वरः- दुःस्वराभ्यां प्रशस्ता प्रशस्तविहायोगतिभ्यां च जायते । दुर्भगा ऽनादेयाऽयशःकीर्तनामुदयो गुणप्रत्ययादेव न भवतीति तदाश्रिता विकल्पा न प्राप्यन्ते' । वैक्रियतिरश्चां एको भङ्गः -- एकत्रिंशत् । तिरश्चामत्रापि त एव भङ्गाः " १४४ | सर्वसङ्ख्यया चत्वारि शतानि त्रिचत्वारिंशदधिकानि ४४३ ।
७
चत्वारि सत्तास्थानानि तद्यथा - त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिश्व । तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकरा - ऽऽहारकं बद्ध्वा परिणामहासेन देशविरतो जातः तस्य त्रिनवतिः । शेषाणां भावनाऽविरतसम्यग्दृष्टेखि कर्तव्या ।
सम्प्रति संवेध उच्यते - तत्र मनुष्यस्य देशविरतस्याष्टाविंशतिबन्धकस्य पञ्च उदयस्थानानि तद्यथा - पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । एतेषु च प्रत्येकं
१ सं स ० १ स २ त कानामव० ॥ २ सं० १ सं० २० म० छा० मिन् द्व े द्वे ॥ ३ सं० सं० १ सं० २० म० व्षु प्रत्ये० ॥ ४ सत्कर्म च बन्धश्च सत्कर्म-बन्धो, तीर्थकरस्य सत्कर्मबन्धौ तीर्थंकरसत्कम-बन्धौ तयोरभावस्तीर्थ कर सत्कर्म बन्धाभावस्तस्मादिति विग्रहः ॥ ५ छा० मुद्रि० ०स्थानामपि तिये ॥। ६ सं० [सं० २०न्ते । वैक्रियतिर्यग्मनुष्याणां प्रत्येकमेकैको भ० छा० ०न्ते । तिर्यग्मनुष्याणां प्रत्येकमेकैको भ० || ७ सं० छा० मुद्रि० ङ्गाः १४४ । चत्वारि सत्ता० ॥
34

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602