Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 535
________________ २४२ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः "दो चउसु" त्ति 'चतुषु' अपूर्वकरणा-ऽनिवृत्तिवादर-सूक्ष्मसम्पराय-उपशान्तमोहरूपेषु गुणस्थानकेपूपशमश्रेणिमधिकृत्य प्रत्येकं द्वौ द्वौ भङ्गो, तद्यथा-मनुष्यायुष उदयो मनुष्यायुषः सत्ता, एष विकल्पः परभवायुवेन्धकालात् पूर्वम् , अथवा मनुष्यायुप उदयो मनुष्य-देवायुषी सती, एष विकल्पः परभवायुर्वन्धोत्तरकालम् , एते ह्यायुर्न बध्नन्ति, अतिविशुद्धत्वात् । पूर्वबढे चायुपि उपशमश्रेणिं प्रतिपद्यन्ते देवायुष्येव नान्यायुपि । तदुक्तं कर्मप्रकृती 'तिसु आउगेसु बढेसु जेण सेटिं न आरुहइ ।। (गा० ३७५) तत उपशमश्रेणिमधिकृत्य एतेषु द्वौ द्वावेव भङ्गो । पूर्ववद्धायुष्कास्तु क्षपकश्रेणिं न प्रतिपद्यन्ते, तत उपशमश्रेणिमधिकृत्येत्युक्तम् । क्षपकश्रेण्यां त्वेतेषामेकेक एव भङ्गः, तद्यथा-मनुष्यायुप उदयो मनुष्यायुषः सत्तेति । "तीसु एक्क" ति 'त्रिपु' क्षीणमोह-सयोगिकेवलि-अयोगिरूपेषु प्रत्येकमेकैको भङ्गः, तद्यथा-मनुष्यायुप उदयो मनुष्यायुषः सत्ता । शेषा न सम्भवन्ति । तदेवमायुपो गुणस्थानकेषु भङ्गा निरूपिताः, सम्प्रति मोहनीयं प्रत्याह मोहं परं वोच्छं ।। ४१ ॥ अतः परं 'मोह' मोहनीयं वक्ष्ये ।। ४१ ॥ गुणठाणगेसु अहसु, एक्केक्कं मोहबंधठाणेसु । पंचानियटिठाणे, बंधोवरमो पर तत्तो ॥ ४२ ।। मोहनीयसत्कबन्धस्थानेषु मध्ये एकैकं बन्धस्थानं मिथ्यादृष्टयादिपु अष्टसु गुणस्थानकेषु भवति, तद्यथा-मिथ्यादृष्टाविंशतिः सासादनस्यैकविंशतिः सम्यग्मिथ्यादृप्टेरविस्तसम्यग्दृप्टेश्च प्रत्येक सप्तदश सप्तदश. देशविरतस्य त्रयोदश, प्रमत्ता-ऽप्रमत्ता-ऽपूर्वकरणानां प्रत्येक नव नव । एतानि च द्वाविशत्यादीनि नवपर्यन्तानि बन्धस्थानानि प्रागेव सप्रपञ्चं भावितानीति न भूयो भाव्यन्ते, विशेषाभावात् । केवलमप्रमत्ता ऽपूर्वकरणयोभङ्ग एकेक एव वक्तव्यः, अरति-शोकयोर्वन्धस्य प्रमत्तगुणस्थानके एव व्यवच्छेदात् । प्राक् च प्रमत्तापेक्षया नवकवन्धस्थाने द्वो भङ्गो दर्शितौ । "पंचानियट्टिठाणे" अनिवृत्तिवादरसम्परायगुणस्थान के पश्च बन्धस्थानानि, तद्यथापञ्च चतत्रः तिस्रः द्वे एका च प्रकृतिरिति । 'ततः' अनिवृत्तिस्थानात् परं सूक्ष्मसम्परायादी 'बन्धोपरमः' बन्धाभावः ।। ४२ ।। सम्प्रत्युदयस्थानप्ररूपणार्थमाह १ विष्वायुष्केषु बद्धषु येन श्रेणि न मारोहति ॥२ सं ० १ त० म० व्योगिकेवलिरू । ३ सं १ त० म० छ। प्रागुक्त प्रम० ।।

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602