Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 549
________________ ०५६ मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं [ गाथाः I योग्यायां तु बध्यमानाय प्रत्येकमेकैको भङ्ग इति सर्वसङ्ख्यया पञ्चविंशतिः । पर्याकेन्द्रियप्रायोग्यं बध्नतः पविशतिः, तस्यां च बध्यमानायां भङ्गाः पोडश । देवगतिप्रायोग्यं नरकगतिप्रायोग्यं वातोऽष्टाविंशतिः । तत्र देवगतिप्रायोग्यायामष्टाविंशतौ अष्टौ भङ्गाः, नरकगतिप्रायोग्यायां त्वेक इति, सर्वसङ्ख्यया नव । पर्याप्तद्वि-त्रि- चतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्यप्रायोग्यं बध्नतामेकोनत्रिंशत् । तत्र पर्याप्तद्वि- त्रि- चतुरिन्द्रियप्रायोग्यायामे कोनविंशति बध्यमानायां प्रत्येकमष्टावष्टौ भङ्गाः, तिर्ववपञ्चेन्द्रियप्रायोग्यायां षट्चत्वारिंशच्छतान्यष्टाधिकानि ४६०८, मनुष्यगतिप्रायोग्यायामप्येतावन्त एव भङ्गाः ४६०८, सर्वसङ्ख्या चत्वारिंशदधिकानि द्विनवतिशतानि २४० । या तु देवगतिप्रायोग्या तीर्थकरनामसहिता एकोनत्रिंशत् सा मिथ्याइष्टेर्नबन्धमायाति तीर्थकर नाम्नः सम्यक्त्वप्रत्ययत्वात् मिथ्यादृष्टेश्व तदभावात् । पर्याप्तद्वि-त्रिचतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रियप्रायोग्यं बध्नस्त्रिंशत् । तत्र पर्याप्तद्वित्रि- चतुरिन्द्रियप्रायोग्याणां त्रिंशति बध्यमानायां प्रत्येकमष्टावष्टौ भङ्गाः, तिर्यक्पञ्चेन्द्रियप्रायोग्यायां त्वष्टाधिकानि षट्चत्वारिंशच्छतानि ४६०८, सर्वसङ्ख्यया द्वात्रिंशदुत्तराणि पट्चत्वारिंशच्छतानि ४३३२ | या च मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता त्रिंशत्, या च देवगतिप्रायोग्या आहारकद्विकमहिता, ते उभे अपि मिथ्यादृष्टेर्न बन्धमायातः, तीर्थकरनाम्नः सम्यक्त्वप्रत्ययत्वात्, आहारकनाम्नस्तु संयमप्रत्ययत्वात् । उक्तं च सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं । इति । त्रयोविंशत्यादिषु च बन्धस्थानेषु यथासङ्ख्यं भङ्गसङ्ख्यानिरूपणार्थमियमन्तर्भाष्यगाथाचउ पणवीसा सोलस, नव चत्ताला सया य बाणउया । बत्तीसुत्तरछाया लसया मिच्छस्स बन्धविही ||८|| सुगमा || तथा मिथ्यादृष्टेर्नव उदयस्थानानि, तद्यथा - एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः पविशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । एतानि सर्वाण्यपि नानाजीवापेक्षया यथा प्राक् सप्रपञ्चमुक्तानि तथाऽत्रापि वक्तव्यानि, केवलमाहारकसंगतानां वैक्रियमं - यतानां केवलिनां च सम्बन्धीनि न वक्तव्यानि तेषां मिथ्यादृष्टित्वाभावात् । सर्वसङ्घयया मिथ्यादृष्टावुदयस्थानभङ्गाः सप्त सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि ७७७३ | तथाहि — एकविंशत्यु'दये एकचत्वारिंशत्-तत्रै केन्द्रियाणां पञ्च, विकलेन्द्रियाणां नव, तिर्यक्पञ्चेन्द्रियाणां नवः मनुष्याणां नव, देवानामष्टौ नारकाणामेकः । तथा चतुर्विंशत्युदये एकादश, ते केन्द्रियाणा १ इत ऊर्ध्वम्-छा० ग्रन्थायम् - २५३३ ।। २ सम्यक्त्वगुणनिमित्तं तीर्थकरं संयमेन आहारम् || ३ २४९ पृष्ठगता ७ संख्याका टिप्पणी अवलोकनीया ॥ ४ सं० त० म० ण्दये वर्तमानस्य० ए° ॥

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602