Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 551
________________ •५८ ] मलयगिरिमहर्षिविरचितविवृत्युपेतः [ गाथाः लभ्यते । अष्टमप्ततिस्तेजो वायूनां मनुष्यगति-मनुष्यानुपूर्योरुद्वलितयोः प्राप्यते । तेजो-वायुभवाद् उद्धृत्य विकलेन्द्रियेषु तिर्यक्पञ्चेन्द्रियेषु वा मध्ये समुत्पन्नानामन्तमुहूर्त कालं यावद् परतोऽवश्यं मनुष्यगति -मनुष्यानुपूयोर्वन्धसम्भवान् । तदेवं सामान्येन मिथ्यादृष्टेबन्ध-उदय-सत्तास्थानान्युक्तानि । सम्प्रति संवेध उच्यते-तत्र मिथ्यादृष्टेस्त्रयोविंशतिं बध्नतः प्रागुक्तानि नवाप्युदयस्थानानि सप्रभेदानि सम्भवन्ति । केवलमेकविंशति-पञ्चविंशति-सप्तविंशति-अष्टाविंशति--एकोनत्रिंशत्-त्रिंशद्र पेषु पट्सूदयस्थानेषु देवनैयिकानधिकृत्य ये भङ्गाः प्राप्यन्ते ते न सम्भवन्ति । त्रयोविंशतिर्हि अपर्याप्ते केन्द्रियप्रायोग्या, न च देवा अपर्याप्त केन्द्रियप्रायोग्य बध्नन्ति, तेषां तत्रोत्पादाभावात् ; नापि नैरयिकाः, तेषां सामान्यतोऽप्येकेन्द्रियप्रायोग्यबन्धासम्भवात् , ततोऽत्र देव-नैरयिकसत्कोदयस्थानभङ्गा न प्राप्यन्ते । सत्तास्थानानि पञ्च, तद्यथा-द्विनवतिः अष्टाशीतिः एडशीतिः अशीतिः अष्टसप्ततिश्च । तत्रै कविंशति-चतुर्विंशति-पञ्चविंशति-पड्विशत्युदयेषु पश्चापि सत्तास्थानानि । नवरं पञ्चविंशत्युदये तेजो वायुकायिकानधिकृत्याष्टसप्ततिः प्राप्यते. पड्विशत्युदये तेजो-वायुकायिकान तेजो-वायुभवाद् उद्धृत्य विकलेन्द्रिय-तिर्यपञ्चेन्द्रियेषु मध्ये समुत्पन्नान वाऽधिक त्य प्राप्यते सप्तविंशति-अष्टाविंशति-एकोनत्रिंशन -त्रिंशद्-एकत्रिंशद्र पेषु पञ्चसु अष्टसप्ततिवर्जानि शेषाणि प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि । सर्वमङ्ख्यया सर्वाण्युदयस्थानान्यांधकृत्य त्रयोविंशतिबन्धकस्य चत्वारिंशत् सत्तास्थानानि । एवं पञ्चविंशति-पडिवशतिबन्धकानामपि वक्तव्यम् , कालमिह देवोऽप्यान्मीयेषु सर्वेष्वप्युदयस्थानेषु वर्तमानः पर्याप्तकैकेन्द्रि यप्रायोग्यां पञ्चविंशति पविशतिं च बनातीत्यवसेयम् । नवरं पश्चविंशतिवन्धे बादर-पर्याप्त -प्रत्यक-स्थिरा-ऽस्थिरशुभा-ऽशुभ-दुर्भगा-ऽनादेय-यशःकीर्ति-अयश कीर्तिपदेष्टौ भङ्गा अवसे याः न शेषाः, सूक्ष्मसाधारणा-ऽपर्याप्त केषु मध्ये देवस्योत्पादाभावात् । सत्तास्थानभावना पश्चविंशतिबन्धे पड्विशतिबन्धे च प्रागिव कर्तव्या। सर्वसङ्घयया चत्वारिंशत् चत्वारिंशत् सत्तास्थानानि । अष्टाविंशतिबन्धकम्य मिथ्यादृष्टेढे उदयस्थाने, तद्यथा-त्रिंशद् एकत्रिंशत् । तत्र त्रिंशत तिर्यपञ्चेन्द्रिय-मनुष्यानधिकृत्य, एकत्रिंशत् तिर्यपञ्चेन्द्रियानेव । अष्टाविंशतिबन्धकस्य चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिः एकाननवतिः अष्टाशीतिः पडशीतिः । तत्र त्रिंशद्दये चत्वार्यपिः तत्राप्येकोननवतियों नाम वदकसम्यग्दृष्टिद्वतीर्थकरनामा परिणामपरावर्तनेन मिथ्यात्वं गतो नरकाभिमुखो नरकगतिप्रायोग्यामष्टाविंशतिं बध्नाति तमधिकृत्य देदितव्या, शेषाणि पुनस्त्रीणि सत्तास्थ नान्यविशेषेण तियग-मनुष्याणाम् । एकत्रिंशदुदये एकोननवतिवांनि त्रीणि सत्तास्थानानि, एकोननवतिर्हि तीर्थकरनामसहिता, न च तीर्थकरनाम तियक्ष १ सं० १ त० म० हूर्त का० । २ सं० स २ छा० न्त्य । सप्त० ॥

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602